________________
अथ पञ्चमोऽध्यायः । उक्ता जीवाः । अजीवान्वक्ष्यामः ॥
'अजीवकाया धर्माधर्माकाशपुद्गलाः ॥ १ ॥ धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकायः पुद्गलास्तिकाय १. जीवो न भवतीत्यजीव इति प्रसज्यप्रतिषेधः । अजीवानां काया अजीवकायाः शिलापुत्रकस्य शरीरमित्यभेदेऽपि षष्ठी दृष्टा । तथा सुवर्णस्यांगुलीयकम् । अन्यत्वाशंकाव्यावृत्त्यर्थो वा कर्मधारय एवाभ्युपेयते । अजीवाश्च ते कायाश्चेत्यजीवकायाः । कायशब्द उपसमाधानवचनः । प्रदेशानामवयवानां च सामीप्येनान्योन्यानुवृत्त्या
सम्यग्मर्यादया धारणमवस्थानमुपसमाधानम् । २. अस्तीत्ययं त्रिकालवचनो निपातः । अभूवत् भवन्ति भविष्यन्ति चेति भावना ।
अतोऽस्ति च ते प्रदेशानां (तादृशदेशसम्बन्धकत्वे सति अविभागभागविशेषकल्पनारूपः प्रदेशः) कायाश्च राशय इति अस्तिशब्देन प्रदेशप्रदेशाः क्वचिदुच्यन्ते, ततश्च तेषां वा कायाः अस्तिकायाः । स चतुर्धा धर्मास्तिकायः, अधर्मास्तिकायः, आकाशास्तिकायः, पुद्गलास्तिकायश्च । एत एव कालेन सह पञ्च अजीवसामान्यमस्ति जीवेन सह च षड् द्रव्याणीति कथ्यन्ते । १ स्वभावतः सञ्चरतां जीवपुद्गलानां गमनागमनादिचेष्टासु भाषामनोवचःकाययोगादिषु मीनानां पानीयमिव यदापेक्षितकारणं तद्रूपत्वम्, गतिरूपेण परिणतानां जीवपुद्गलानां गतौ यदापेक्षितकारणं तद्रूपत्वं वा धर्मास्तिकायस्य लक्षणम् । २ स्वभावतः स्थितिमतां जीवपुद्गलानां, पान्थानां छायास्थलमिव शयननिषदनस्थानालम्बनादिषु यत्साधारणनिमित्तं तद्रूपत्वं, स्थितिरूपेण परिणतानां जीवपुद्गलानां यत् साधारणनिमित्तं तद्रूपत्वं वाऽधर्मास्तिकायस्य लक्षणम् । ३ अवगाहमानानां पदार्थानामवकाशे शर्करावह्नयोर्दुग्धायोगोलकवत् हेतुताधारकत्वमाकाशस्य लक्षणम् । ४ ग्रहणधारणादिपरिणामत्वे सति रूपादिमत्त्वम्, रूपादिसंस्थानपरिणामरूपत्वं वा पुद्गलास्तिकायस्य लक्षणम् । ५ वर्तन्ते भवन्ति भावास्तेन रूपेण तान् प्रति प्रयोजकत्वं वर्तना सा लक्षणमस्येति वर्तनालक्षणः कालः द्रुमादिपुष्पोद्भेदादिनयत्यहेतुः । ६ उपयोगवत्त्वं जीवस्य लक्षणम् । ज्ञानदर्शनयोः सम्यक् स्वविषयकसीमानुल्लंघनेन धारणरूपवत्त्वम्, बाह्याभ्यन्तरनिमित्तकत्वे सति आत्मनो यथायोगं चैतन्यानुकारिपरिणामविशेषरूपत्वं वोपयोगस्य लक्षणम् ।
पुद्गलं विना सर्वद्रव्याण्यरूपीणि नित्यावस्थितानि च तत्र नित्यत्वं नाम परिणामान्तरापत्तौ सत्यामप्यन्वयिनोंऽशादप्रच्युतरूपत्वं कदाचिदपि पञ्चभूतार्थं न व्यभिचरतीत्येवंरूपत्वमवस्थितस्य लक्षणम् । जीवपुद्गली विना निष्क्रियाण्यपि तानि सन्ति । तत्र क्रियावत्त्वं नाम कर्मबन्धनिबन्धनचेष्टाविशेषरूपत्वम्, निमित्तापेक्षत्वे सति द्रव्यस्य देशान्तरप्राप्तिहेतुभूतपर्यायविशेषरूपत्त्वं वा । तदभाववत्त्वं निष्क्रियत्वम् ।