SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् गतिरतयो देवा वहन्ति । तद्यथा-पुरस्तात्केसरिणो, दक्षिणतः कुञ्जरा, अपरतो वृषभा, उत्तरतो जविनोऽश्वा इति ।। १४ ॥ तत्कृतः कालविभागः ॥ १५ ॥ कालोऽनन्तसमयो वर्तनादिलक्षण इत्युक्तम् । तस्य विभागो ज्योतिष्काणां गतिविशेषकृतश्चारविशेषेण हेतुना । तैः कृतस्तत्कृतः । तद्यथा-अणुभागाश्चारा अंशाः कलालवा नालिका मुहूर्ता दिवसरात्रयः पक्षा मासा ऋतवोऽयनानि संवत्सरा युगमिति लौकिकसमो विभागः ।। पुनरन्यो विकल्पः प्रत्युत्पन्नोऽतीतोऽनागत इति त्रिविधः । पुनस्त्रिविधः परिभाष्यते-संख्येयोऽसंख्येयोऽनन्त इति ।। तत्र परमसूक्ष्मक्रियस्य सर्वजघन्यगतिपरिणतस्य परमाणोः स्वावगाहनक्षेत्रव्यतिक्रमकालः समय इत्युच्यते परमदुरधिगमोऽनिर्देश्यः । तं हि भगवन्तः परमर्षयः केवलिनो विदन्ति, न तु निर्दिशन्ति, परमनिरूद्धत्वात् । परमनिरूद्धे हि तस्मिन् भाषाद्रव्याणां ग्रहणनिसर्गयोः करणप्रयोगासम्भव इति । ते त्वसंख्येया आवलिका । ताः संख्येया उच्छ्वासस्तथा निःश्वासः । तौ बलवतः पट्विन्द्रियस्य कल्यस्य मध्यमवयसः स्वस्थमनसः पुंसः प्राणः । ते सप्त स्तोकः । ते सप्त लवः । तेऽष्टात्रिंशदर्धं च नालिका । ते द्वे मुहूर्तः । ते त्रिंशदहोरात्रम् । तानि पञ्चदश पक्षः । तौ द्वौ शुक्लकृष्णौ मासः । तौ द्वौ मासावृतुः । ते त्रयोऽयनम् । ते द्वे संवत्सरः । ते पञ्च चन्द्रचन्द्राभिवर्धितचन्द्राभिवर्धिताख्या युगम् । तन्मध्येऽन्ते चाधिकमासकौ । सूर्यसावनचन्द्रनक्षत्राभिवर्धितानि युगनामानि । वर्षशतसहस्रं चतुरशीतिगुणितं पूर्वांगम् । पूर्वाङ्गशतसहस्रं चतुरशीतिगुणितं पूर्वम् । एतं १. सर्वे चैते षोडशसहस्रसंख्या देवाः सवितुर्विमानं वहन्ति । तथा चन्द्रमसः । एवं विमानवहनसमये देवाः पूर्वदक्षिणपश्चिमोत्तरदिक्षु यथाक्रमं केसरिकुलरवृषभाश्वरूपाणि धारयन्ति । २. अ. ५ सू. ३९. ३. अ. ५ स. २२. ४. प्रत्युत्पन्नः- वर्तमानः । ५. प्रथमद्वितीयौ संवत्सरौ चान्द्री ज्ञातव्यौ, तृतीयसंवत्सरं अभिवर्धितं जानीहि, चतुर्थसंवत्सरं भूयश्चान्द्रमेव जानीहि, पंचममभिवर्धितम् । अत्र ये चान्द्राः संवत्सराः ते द्वादशमासिका ये तु द्वौ अभिवर्धिताख्यौ-संवत्सरौ तौ त्रयोदशमासिकौ चान्द्रमासप्रमाणेन ।
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy