________________
४-१९
तान्ययुतकमलनलिनकुमुदतुद्यडडाववाहाहाहूहूचतुरशीतिशतसहस्रगुणाः सङ्खयेयः कालः । अत ऊर्ध्वमुपमानियतं वक्ष्यामः । तद्यथा हि नाम योजनविस्तीर्ण योजनोच्छ्रायं वृत्तं पल्यमेकरात्राद्युत्कृष्टसप्तरात्रजातानामङ्गलोम्ना गाढं पूर्ण स्याद्वर्षशतादेकैकस्मिन्नुध्रियमाणे यावता कालेन तद्रिक्तं स्यादेतत्पल्योपमम् । तद्दशभिः कोटीकोटिभिर्गुणितं सागरोपमम् । तेषां कोटीकोटयश्चतस्रः सुषमसुषमा । तिस्रः सुषमा । द्वे सुषमदुःषमा । द्विचत्वारिंशद्वर्षसहस्राणि हित्वा एका दुःषमसुषमा । वर्षसहस्राणि एकविंशतिर्दुःषमा । तावत्येव दुःषमदुषमा । ता अनुलोमप्रतिलोमा अवसर्पिण्युत्सर्पिण्यौ भरतैरावतेष्वनाद्यनन्तं परिवर्तेतेऽहोरात्रवत् । तयोः शरीरायुःशुभपरिणामानामनन्तगुणहानिवृद्धी, अशुभपरिणामवृद्धिहानी । अवस्थितावस्थितगुणा चैकैकान्यत्र । तद्यथा-कुरुषु सुषम-सुषमा, हरिरम्यकवासेषु सुषमा, हैमवतहैरण्यवतेषु सुषमदुःषमा, विदेहेषु सान्तरद्वीपेषु दुःषमसुषमा, इत्येवमादिर्मनुष्यक्षेत्रे पर्यापन्नः कालविभागो ज्ञेय इति ।। १५ ॥
बहिरवस्थिताः ॥ १६ ॥ नृलोकाद्वहियॊतिष्का अवस्थिताः । अवस्थिता इत्यविचारिणोऽवस्थितविमानप्रदेशा अवस्थितलेश्याप्रकाशा' इत्यर्थः । सुखशीतोष्णरश्मयश्चेति ॥ १६॥
वैमानिकाः ॥ १७ ॥ चतुर्थो देवनिकायो वैमानिकाः । तेऽत ऊर्ध्व वक्ष्यन्ते । विमानेषु भवा वैमानिकाः ॥ १७ ॥
कल्पोपपत्राः कल्पातीताश्च ॥ १८॥ द्विविधा वैमानिका देवाः । कल्पोपपन्नाः३ कल्पानीताश्च । तान् परस्ताद्वक्ष्याम' इति ॥ १८ ॥
___ उपर्युपरि ॥ १९ ॥ १. लेश्या वर्णः स नृलोकान्तर्वर्तिनामुपरागादिभिरन्यत्वमपि प्रतिपद्यते । तबहिर्वर्तिनां तु
तदभावादवस्थितपीतवर्णत्वम् । प्रकाशोऽप्यवस्थितस्तेषां योजनशतसहस्रपरिमाणो
निष्कम्पत्वादस्तमयोदयाभावाचेति । २. अ. ४ सू. २०. ३. सौधर्मादिकल्पवर्तिनः ।। ४. उपरिष्ठाः सर्वग्रैवेयकविमानपञ्चकाधिवासिनः । ५. अ. ४ सू. २४.