SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ७४ --- ४-१४ 'विमानानि तेषु भवा ज्योतिष्का ज्योतिषो वा देवा ज्योतिरेव वा ज्योतिष्काः । मुकुटेषु शिरोमुकुटोपगृहितैः प्रभामण्डलकल्पैरूज्वलैः सूर्यचन्द्रतारामण्डलैर्यथास्वं चिलैर्विराजमाना द्युतिमन्तो ज्योतिष्का भवन्तीति ॥ १३ ॥ __ मेरुप्रदक्षिणानित्यगतयो नृलोके ॥ १४ ॥ मानुषोत्तरपर्यन्तो मनुष्यलोक इत्युक्तम् । तस्मिन् ज्योतिष्का मेरुप्रदक्षिणानित्यगतयो भ्रमन्ति । मेरोः प्रदक्षिणा नित्या गतिरेषामिति मेरुप्रदक्षिणानित्यगतयः । एकादशस्वेकविंशेषु योजनशतेषु मेरोश्चतुर्दिशं प्रदक्षिणं चरन्ति । तत्र द्वौ सूर्यौ जम्बूद्वीपे, लवणजले चत्वारो, धातकीखण्डे द्वादशा, कालोदे द्विचत्वारिंशत्, पुष्करार्धे द्विसप्ततिरित्येवं मनुष्यलोके द्वात्रिंशत्सूर्यशतं भवति । चन्द्रमसामप्येष एव विधिः । अष्टाविंशतिर्नक्षत्राणि, अष्टाशीतिर्ग्रहाः, षट्षष्टिः सहस्राणि नव शतानि पञ्चसप्ततीनि ताराकोटीकोटीनामेकैकस्य चन्द्रमसः परिग्रहः । सूर्याश्चन्द्रमसो ग्रहा नक्षत्राणि च तिर्यग्लोके, शेषास्तूचंलोके ज्योतिष्का भवन्ति । अष्टचत्वारिंशद्योजनैकषष्टिभागाः सूर्यमण्डलविष्कम्भः, चन्द्रमसः षट्पञ्चाशद्, ग्रहाणामधयोजनं, गव्यतं नक्षत्राणां, सर्वोत्कृष्टायास्ताराया अर्धक्रोशो, जघन्यायाः पञ्चधनुःशतानि विष्कम्भार्धबाहल्याश्च भवन्ति । सर्वे सूर्योदयो नृलोक इति वर्तते । बहिस्तु विष्कम्भबाहल्याभ्यामतोऽर्धं भवन्ति ॥ एतानि च ज्योतिष्कविमानानि लोकस्थित्या प्रसक्तावस्थितगतीन्यपि ऋद्धिविशेषार्थमाभियोग्यनामकर्मोदयाच नित्यं १. अत्यन्तप्रकाशकारित्वात् ज्योतिःशब्दाभिधेयानि विमानानि । २. जम्बूद्वीप (३-९) धातकीखण्डपुष्करवरद्वीपार्धरूपा द्वीपाः द्वौ च लवणोदधिकालोदधिरूपी समुद्री मानुषं क्षेत्रं मनुष्याणामुत्पत्तेर्मरणस्य च भावात् । अस्मिंश्च मानुषे क्षेत्रे समा विभागाः कालविभागाः सुषमसुषमादयो (४-१५) भवन्ति । ततो मनुष्यक्षेत्रात्परतः सर्वमपि देवारण्यं देवानां क्रीडास्थानं तत्र जन्मतो मनुष्याः नापि तत्र कोऽपि कालविभाग इत्यर्थः । ३. अ. ३ स. १४. ४. तत्र द्वात्रिंशं शतं एवं चन्द्राणामपि द्वात्रिंशं शतं परिभावनीयम् । (जी. ३ प्रति.) ५. एकैकस्य शशिनः तारापरिवारः कोटीकोटीनां षट्षष्टिः सहस्राणि नव शतानि पंचसप्तत्यधिकानि । सूर्य. १९ प्रा. ॥ ६. सूर्यमण्डलस्य विष्कम्भः अष्टचत्वारिंशदेकषष्टभागा योजनस्य (जं. ७ वक्ष.)
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy