SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थोऽध्यायः । अत्राह । उक्तं भवता भवप्रत्ययोऽवधि रकदेवानामिति । तथौदयिकेषु भावेषु देवगतिरिति । 'केवलिश्रुतसङ्घधर्मदेवावर्णवादो दर्शनमोहस्य' 'सरागसंयमादयो देवस्य । “नारकसम्मूर्छिनो नपुंसकानि' 'न देवाः'६ । तत्र के देवाः । कतिविधा वेति । अत्रोच्यते- ... देवाश्चतुर्निकायाः ॥ १ ॥ . देवाश्चतुर्निकाया भवन्ति । तान्पुरस्ताद्वक्ष्यामः ॥१॥ तृतीयः पीतलेश्यः ॥ २ ॥ तेषां चतुर्णा देवनिकायानां तृतीयो देवनिकायः पीतलेश्य एव भवति । कश्चासौ । ज्योतिष्क इति ।। २ ॥ दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपत्रपर्यन्ताः ॥ ३ ॥ ते च देवनिकाया यथासंख्यमेवंविकल्पा भवन्ति । तद्यथा । दशविकल्पा भवनवासिनोऽसुरादयो वक्ष्यन्ते । अष्टविकल्पा व्यन्तराः किन्नरादयः । पञ्चविकल्पा ज्योतिष्काः" सूर्यादयः । द्वादशविकल्पा वैमानिकाः१२ १३कल्पोपन्नपर्यन्ताः१४ सौधर्मादिष्विति ॥ ३ ॥ १. अ. १ सू. २२. २. अ. २ सू. ६ भाष्ये । ३. अ. ६ सू. १४. ४. अ. ६ सू. २०. ५. अ. २ सू. ५०. ६. अ. २ सू. ५१. ७ वैमानिकानधिकृत्येदमुच्यते ऊर्ध्वलोकावसर इति । प्रधानत्वात्, अन्यथा भवनपतयोऽधोलोके, व्यन्तरज्योतिष्कास्तिर्यग्लोक इति । ८. अ. ४ सू. ११-१२-१३-१७. ९. अ. ४ सू. ११. १०. अ. ४ सू. १२. ११. अ. ४ सू. १३ १२. अ. ४ सू. १७. १३. अन्ते परिंगताः पर्यन्ता कल्पोपपन्नाः पर्यन्ताः येषां ते इमे कल्पोपपत्रपर्यन्ताः कल्पाश्च द्वादश वक्ष्यमाणाः सौधर्मादयोऽच्युतपर्यवसानाः, तत्पर्यन्तमेतच्चतुष्टयं भवतीत्यावेदयति । परे तु द्विर्विकल्पाः- ग्रैवेयकवासिनो विजयादिविमानपञ्चकनिवासिनश्च । १४. अ. ४ सू. २०-२४.
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy