SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् इन्द्रसामानिकत्रायस्त्रिंशपारिषयात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्लि किल्बिषिकाश्चैकशः ॥ ४ ॥ एकैकशश्चैतेषु देवनिकायेषु देवा दशविधा भवन्ति । तद्यथा । इन्द्राः सामानिकाः त्रायस्त्रिंशाः पारिषद्याः आत्मरक्षाः लोकपालाः अनीकानि अनीकाधिपतयः प्रकीर्णकाः आभियोग्याः किल्बिषिकाश्चेति । तत्रेन्द्राः भवनवासिव्यन्तरज्योतिष्कविमानाधिपतयः । इन्द्रसमाः सामानिका अमात्यपितृगुरूपाध्यायमहत्तरवत् केवलमिन्द्रत्वहीनाः । त्रायस्त्रिंशा मन्त्रिपुरोहितस्थानीयाः । पारिषद्या वयस्यस्थानीयाः । आत्मरक्षाः शिरोरक्षस्थानीयाः । लोकपाला आरक्षिकार्थचरस्थानीयाः । अनीकाधिपतयो दण्डनायकस्थानीयाः । अनीकान्यनीकस्थानीयान्येव । प्रकीर्णकाः पौरजनपदस्थानीयाः । आभियोग्या दासस्थानीयाः । किल्बिषिका अन्तस्थस्थानीया इति ।। ४ ॥ त्रायस्त्रिंशलोकपालवर्जा व्यन्तरज्योतिष्काः ॥५॥ व्यन्तरा ज्योतिष्काश्चाष्टविधा भवन्ति त्रायस्त्रिंशलोकपालवर्जा इति ॥ ५ ॥ पूर्वयोभन्द्राः ॥ ६ ॥ पूर्वयोर्देवनिकाययोर्भवनवासिव्यन्तरयोर्देवविकल्पानां द्वौ द्वाविन्द्रौ भवतः । तद्यथा । भवनवासिषु तावद् द्वौ असुरकुमाराणामिन्द्रौ भवतश्चमरो वलिश्च । नागकुमाराणां धरणो भूतानन्दश्च । विद्युत्कुमाराणां हरिहरिसहश्च । सुपर्णकुमाराणां वेणुदेवो वेणुदारी च । अग्निकुमाराणामग्निशिखोऽग्निमाणवश्च । वातकुमाराणां वेलम्बः प्रभञ्जनश्च । स्तनितकुमाराणां सुघोषो महाघोषश्च । उदधिकुमाराणां जलकान्तो जलप्रभश्च । द्वीपकुमाराणां पूर्णोऽवशिष्टश्च । दिक्कुमाराणाम मितोऽमितवाहनश्चेति ।। ____ व्यन्तरेष्वपि द्वौ किन्नराणामिन्द्रौ किन्नरः किम्पुरुषश्च । किम्पुरुषाणां सत्पुरुषो महापुरुषश्च । महोरगाणामतिकायो महाकायश्च । गन्धर्वाणां गीतरविर्गीतयशाश्च । यक्षाणां पूर्णभद्रो मणिभद्रश्च । राक्षसानां भीमो महाभीमश्च । भूतानां प्रतिरूपोऽतिरूपश्च । पिशाचानां कालो महाकालश्चेति । ज्योतिष्काणां तु बहवः सूर्याश्चन्द्रमसश्च ।। वैमानिकानामेकैक एव । तद्यथा । सौधर्मे शक्रः । ऐशाने ईशानः । सनत्कुमारे सानत्कुमार इति । एवं सर्वकल्पेषु स्वकल्पाह्वाः । 'परतस्त्विन्द्रादयो दश १. अच्युतकल्पात्परतः इन्द्रादयो विकल्पा ग्रैवेयकेषु विजयादिकेषु च न भवन्ति । सर्व एव हि ते स्वतंत्रत्वादहमिन्द्रा गमनागमनरहिताश्च प्राय इति ।
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy