________________
तत्त्वार्थाधिगमसूत्रम्
६७ नरो नरा मनुष्या मानुषा इत्यनर्थान्तरम् । मनुष्याणां परा स्थितिस्त्रीणि 'पल्योपमान्यपरान्तर्मुहूर्तेति ॥ १७ ॥
तिर्यग्योनीनां च ॥ १८ ॥ तिर्यग्योनिजानां च परापरे स्थिती त्रिपल्योपमान्तर्मुहूर्ते भवतो यथासङ्खयमेव । पृथक्करणं यथासङ्ख्यदोषविनिवृत्त्यर्थम् । इतरथा इदमेकमेव सूत्रमभविष्यदुभयत्र चोभे यथासङ्खयं स्यातामिति ॥
द्विविधा चैषां मनुष्यतिर्यग्योनिजानां स्थितिः । भवस्थितिः२ ३कायस्थितिश्च । मनुष्याणां यथोक्ते त्रिपल्योपमान्तर्मुहूर्ते परापरे भवस्थिती । कायस्थितिस्तु परा 'सप्ताष्टौ वा भवग्रहणानि ।।
तिर्यग्योनिजानां च यथोक्ते समासतः परापरे भवस्थिती । व्यासतस्तु शुद्धपृथिवीकायस्य परा द्वादशवर्षसहस्राणि । खरपृथिवीकायस्य द्वाविंशतिः । अप्कायस्य सप्त । वायुकायस्य त्रीणि । तेजःकायस्य त्रीणि रात्रिंदिनानि । वनस्पतिकायस्य दशवर्षसहस्राणि । एषां कायस्थितिरसंख्येया
अवसर्पिण्युत्सर्पिण्यो वनस्पतिकायस्यानन्ताः । द्वीन्द्रियाणां भवस्थितिादशवर्षाणि । त्रीन्द्रियाणामेकोनपञ्चाशद्रात्रिंदिनानि । चतुरिन्द्रियाणां षण्मासाः । एषां कायस्थिति सङ्खयेयानि वर्षसहस्राणि । पञ्चेन्द्रियतिर्यग्योनिजाः पञ्चविधाः । तद्यथा । मत्स्या उरगाः परिसा पक्षिणश्चतुष्पदा इति । तत्र मत्स्यानामुरगाणां भुजगानां च पूर्वकोट्येव, पक्षिणां पल्योपमासंख्येयभागश्चतुष्पदानां त्रीणि पल्योपमानि गर्भजानां स्थितिः । तत्र मत्स्यानां भवस्थितिः पूर्वकोटिस्त्रिपञ्चाशदुरगाणां द्विचत्वारिंशद्भुजगानां द्विसप्ततिः पक्षिणां स्थलचराणां चतुरशीतिवर्षसहस्राणि सम्मूर्छिमानां भवस्थितिः । एषां कायस्थितिः सप्ताष्टौ भवग्रहणानि । सर्वेषां मनुष्यतिर्यग्योनिजानां कायस्थितिरप्यपरान्तर्मुहूर्तेवेति ।।१८॥ इति तत्त्वार्थाधिगमसूत्रे स्वोपज्ञभाष्यसमेते तृतीयोऽध्यायः समाप्तः ॥ ३ ॥ १. अ. ४ सू. १५. २. मनुष्यजन्म लब्ध्वा तिर्यग्जन्म वा कियन्तं कालं जीवति प्राणी जघन्येनोत्कर्षेण वेति । ३. मनुष्यो भूत्वा तिर्यग्योनिर्वा मरणमनुभूय पुनर्मनुष्येष्वेव मनुष्यः, तिर्यक्ष्वेव
तिर्यग्योनिनैरन्तर्येण कतिकृत्वः समुत्पद्यते । ४. अष्टमभवे तु देवकुरुत्तरकुरुषूत्पद्यते पश्चाद् देवलोकं गच्छति । ५. अ. ३ सू. १७. ६. अ. ४ सू. १५.