________________
६४
३-१५
___ न कदाचिदस्मात्परतो जन्मतः संहरणतो वा 'चारणविद्याधरद्धिप्राप्ता अपि मनुष्या भूतपूर्वा भवन्ति भविष्यन्ति च । अन्यत्र समुद्घातोपपाताभ्याम् । अत एव च मानुषोत्तर इत्युच्यते ॥
तदेवमर्वाङ्मानुषोत्तरस्यार्धतृतीया द्वीपाः समुद्रद्वयं पञ्चमन्दराः पञ्चत्रिंशत्क्षेत्राणि त्रिंशद्वर्षधरपर्वताः पञ्च देवकुरवः पञ्चोत्तराः कुरवः शतं षष्टयधिकं चक्रवर्तिविजयानां द्वे शते पञ्चपञ्चाशदधिके जनपदानामन्तरद्वीपाः षट्पञ्चाशदिति ।। १३ ॥
अत्राह । उक्तं भवता मानुषस्य स्वभावमार्दवार्ज वत्वं चेति, तत्र के मनुष्याः क्क चेति । अत्रोच्यते
प्राग्मानुषोत्तरान्मनुष्याः ॥ १४ ॥ प्राग्मानुषोत्तरात्पर्वतात्पञ्चत्रिंशत्सु क्षेत्रेषु सान्तरद्वीपेषु जन्मतो मनुष्या भवन्ति । संहरणविद्यर्द्धियोगात्तु सर्वेष्वर्धतृतीयेषु द्वीपेषु समुद्रद्वये च समन्दरशिखरेष्विति ।।
भारतका हैमवतका इत्येवमादयः क्षेत्रविभागेन । जम्बूद्वीपका लवणका इत्येवमादयः द्वीपसमुद्रविभागेनेति ।।१४॥
आर्या ग्लिशश्च ॥ १५ ॥ द्विविधा मनुष्या भवन्ति । आर्या म्लिशश्च ।। तत्रार्याः षड्विधाः । क्षेत्रार्या जात्यार्याः कुलार्याः कार्याः शिल्पार्या भाषार्या इति । तत्र क्षेत्रार्याः पञ्चदशसु कर्मभूमिषु जाताः । तद्यथा । भरतेष्वर्धषड्विंशतिषु जनपदेषु जाताः शेषेषु च १. तपोविशेषानुष्टानाजवाचारिणो विद्याचारिणश्च संयता नन्दीश्वरादिद्वीपान् गच्छन्ति
चैत्यवन्दनायै । विद्याधरा महाविद्यासंपना ऋद्धिप्राप्ताश्च वैक्रियादिशरीरभाजः सर्वे गच्छन्ति
परतः । नतु प्राणान् परित्यजन्ति तत्रैवेति । २. कच्छादयो विजयनामानो द्वात्रिंशजनपदा जम्बूद्वीपे | चतुःषष्टिर्धातकीखण्डे पुष्करार्धे च ।
ततः १६० भवन्ति । भरतैरावतापेक्षयाऽऽर्यजनपदा द्विशतं पञ्चाशच्च भवन्ति । तत्र
तावदेकत्रापि भरतवर्षे अर्धषड्विंशा देशा आर्यसंज्ञा मगधादयः । ३. ६.१८ ४. तत्र क्षेत्रजातिकुलकर्मशिल्पभाषाज्ञानदर्शनचारित्रेषु शिष्टलोकन्यायधर्मानपेताचरणशीला
आर्याः । ५. एतद्विपरीतास्तु म्लिशो भवन्ति अव्यक्तानियतभाषाचेष्टत्वात् ।