________________
तत्त्वार्थाधिगमसूत्रम्
ज्याविष्कम्भयोर्वर्गविशेषमूलं विष्कम्भाच्छोध्यं, शेषार्धमिषुः ' । इषुवर्गस्य षड्गुणस्य ज्यावर्गयुतस्य कृतस्य मूलं धनुःकाष्ठम् । ज्यावर्गचतुर्भागयुक्तमिषुवर्गमिषुविभक्तं तत्प्रकृतिवृत्तविष्कम्भः । उदग्धनुः काष्ठाद्दक्षिणं शोध्यं शेषार्धं बाहुरिति ॥
सर्वपर्वतानामायाम
अनेन करणाभ्युपायेन सर्वक्षेत्राणां विष्कम्भज्येषुधनुः काष्ठपरिमाणानि ज्ञातव्यानि ॥। ११ ॥
द्विर्धातकीखण्डे ।। १२॥
६३
एते मन्दरवंशवर्षधरा जम्बूद्वीपेऽभिहिता, एते द्विगुणा धातकीखण्डे द्वाभ्यामिष्वाकारपर्वताभ्यां दक्षिणोत्तरायताभ्यां विभक्ताः 1 एभिरेव नामभिर्जम्बूद्वीपकसमसंख्याः पूर्वार्धे चापरार्धे च चक्रारकसंस्थिता निषधसमोच्छ्रायाः कालोदलवणजलस्पर्शिनो वंशधराः सेष्वाकारा अरविवरसंस्थिता वंशा इति ॥ १२ ॥
पुष्करार्धे च ॥ १३ ॥
यश्च धातकीखण्डे मन्दरादीनां सेष्वाकारपर्वतानां सङ्ख्याविषयनियमः स एव पुष्करार्धे वेदितव्यः ॥
ततः परं मानुषोत्तरो नाम पर्वतो मानुषलोकपरिक्षेपी सुनगरप्राकारवृत्तः पुष्करवरद्वीपार्धविनिविष्टः काञ्चनमयः । सप्तदशैकविंशतियोजनशतान्युच्छ्रि तश्चत्वारि त्रिंशानि क्रोशं चाधो धरणीतलमवगाढो योजनसहस्रं द्वाविंशमधस्ताद्विस्तृतः । सप्तशतानि त्रयोविंशानि मध्ये । चत्वारि चतुर्विंशान्युपरीति ।
१।२.नियमादवश्यतया धनुः पृष्ठवर्गात् जीववर्गं विशोध्यापनीय शेषस्य षड्भागे षड्भिर्भागे हते यन्मूलमागच्छति तदिषुपरिमाणं भवति ।
इह भरतस्य इषुकलाः १००००, तद्वर्गस्तु १००००००००, षड्गुणः स च ६०००००००० अतः परं ज्या चिन्तनीया । सा तु २७४९२५, तद्वर्गः स च ७५५४०२५२०२५ एतौ द्वावपि इषुज्यावर्गावेकत्र संयोज्य मूलं निष्कास्यम् । तच्चेदं २७६०४३ तत एकोनविंशतिभागैः प्राप्यन्ते १४५२८/११ इदं भरत क्षेत्रधनुपृष्ठम् । 'उसुवग्गि छगुणजीवा - वग्गजूए मूल होइ धणुपिठ्ठे' इति वचनात् ।
३. सम्पूर्णभरतस्य धनुः काष्ठं कृत्वा दक्षिणार्धभरतस्यापि धनुःकाष्ठं क्रियते । इदं च महतः सकाशात्त्याज्यम् । शेषमर्धदलितं सद्वैताद्ययुतोत्तरभरतस्य बाहुयुगं स्यात् । यतः 'धणुदुगविसेससेसं दलियं बाहायुगं होइ' इति वचनात् ।