SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् ६५ चक्रवर्तिविजयेषु । जात्यार्या' इक्ष्वाकवो 'विदेहा हरयोऽम्बष्ठाः ज्ञाता कुरवो वुवुनाला उग्रा भोगा राजन्या इत्येवमादयः । कुलार्याः कुलकराश्चक्रवर्तिनो बलदेवा वासुदेवा ये चान्ये आतृतीयादापञ्चमादासप्तमाद्वा कुलकरेभ्यो वा विशुद्धान्वयप्रकृतयः । कर्मार्या यजनयाजनाध्ययनाध्यापनप्रयोगकृषिलिपिवाणिज्ययोनिपोषणवृत्तयः 1 "शिल्पार्यास्तन्तुवायकुलालनापिततुन्नवायदेव 'टादयोऽल्पसावद्या अगर्हिता जीवाः । भाषार्या नाम ये "शिष्टभाषानियतवर्णं लोकरूढस्पष्ट शब्दं पञ्चविधानामप्यार्याणां संव्यवहारं भाषन्ते ॥ अतो विपरीता "म्लिशः । तद्यथा । हिमवतश्चतसृषु विदिक्षु त्रिणि योजनशतानि लवणसमुद्रमवगाह्य चतसृणां मनुष्यविजातीनां चत्वारोऽन्तरद्वीपा १. पित्रन्वयो जातिः । २. मात्रन्वयः कुलम् । ३. अस्यामवसर्पिण्यां वर्तमानायां या तृतीया समा सुषमदुः षमाभिधाना तस्या यः पश्चिमो भागस्तस्मिन् पल्योपमाष्टभागप्रमाणे शेषे तिष्ठति सति कुलकरोत्पत्तिरभूत् । अर्धभरतमध्यमत्रिभागे-गंगासिंधुमध्येऽत्र एतस्मिन्नर्द्धभरतमध्यमत्रिभागे बहुमध्यदेशे, न तु पर्यन्तेषु । उत्पन्नाः कुलकराः सप्त । इहार्धभरतं विद्याधरालयवैताढ्यपर्वतादारतः परिग्राह्यं न तु परतः, व्याख्यानात् । विमलवाहनः चक्षुष्मान् यशस्वी अभिचन्द्रः प्रसेनजित् मरुदेवः नाभिः । जम्बूद्वीपप्रज्ञप्त्या पंचदश कुलकरास्तेषां नामानि - सुमतिः प्रतिश्रुतिः सीमंकरः सीमंधरः क्षेमंकरः क्षेमंधरः विमलवाहनः चक्षुष्मान् यशस्वी अभिचन्द्रः चन्द्राभः प्रसेनजित् मरुदेवः नाभिः ऋषभ । इति । अत्राह कश्चित् - आवश्यकनिर्युक्त्यादिषु सप्तानां कुलकराणामभिधानादिह पंचदशानां तेषामभिधानं कथम् ? अत्रोत्तरम् - भवतु नामैतत् पुण्यपुरुषाणामधिकाधिकवंश्यपुरुषवर्णनस्य न्याय्यत्वात् । ४. अनाचार्यकं किल कर्म तत्रार्याः कर्मार्याः । ५. आचार्योपदेशात् शिक्षितं शिल्पं तन्तुवायादि तत्रार्या : शिल्पार्याः ६. एतच्छब्दार्थ : सम्प्रदायतो ज्ञेयः । ७. शिष्टाः सर्वातिशयसंपन्ना गणधरादयः तेषां भाषा संस्कृतार्धमागधिकादिका च तत्र शिष्टभाषानियता वर्णा विशिष्टेन पौर्वापर्येण संनिवेशिता यस्यासौ । ८. लोकरूढः अत्यन्तप्रसिद्धः संव्यवहारेषु स्फुटः, नाव्यक्तो बालभाषावत्, लोकरूढः स्पष्टः शब्दो यस्मिन् संव्यवहारे तमेवंविधम् । ९. क्षेत्रादिभेदभाजामनन्तरोक्तानां संव्यवहारम् आगच्छ याहि इदं कुरु मैवं कार्षीरित्येवमादिकं भाषन्ते ये ते भाषार्याः । १०. शकयवनकिरातादयः ग्लिशः ।
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy