SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ५८ ३-६ एवमेतानि त्रिविधानि दुःखानि नरकेषु नारकाणां भवन्तीति ।। ५ ।। तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमा सत्त्वानां परा स्थिति ॥ ६ ॥ तेषु नरकेषु नारकाणां पराः स्थितयो भवन्ति । तद्यथा । रत्नप्रभायामेकं सागरोपमम् । एवं त्रिसागरोपमा सप्तसागरोपमा दशसागरोपमा सप्तदशसागरोपमा द्वाविंशतिसागरोपमा त्रयस्त्रिंशत्सागरोपमा । जघन्या तु पुरस्ताद्वक्ष्यते । ‘नारकाणां च १द्वितीयादिषु । दशवर्षसहस्राणि प्रथमायाम्' इति । तत्रास्रवैर्यथोक्तैरिकसंवर्तनीयैः कर्मभिरसंज्ञिनः प्रथमायामुत्पद्यन्ते । सरीसृपा द्वयोरादितः प्रथमद्वितीययोः । एवं पक्षिणस्तिसृषु । सिंहाश्चतसृषु । उरगाः पञ्चसु । स्त्रियः षट्सु । मत्स्यमनुष्याः सप्तस्विति । न तु देवा नारका वा नरकेषूपपत्तिं प्राप्नुवन्ति । न हि तेषां बह्वारम्भपरिग्रहादयो नरकगतिनिर्वर्तका हेतवः सन्ति । नाप्युद्वर्त्य नारका देवेषूत्पद्यन्ते । न ह्येषां सरागसंयमादयो देवगतिनिर्वर्तका हेतवः सन्ति । उद्वर्तितास्तु तिर्यग्योनौ मनुष्येषु वोत्पद्यन्ते । मानुषत्वं प्राप्य केचित्तीर्थकरत्वमपि प्राप्नुयुरादितस्तिसृभ्यः, निर्वाणं चतसृभ्यः, संयम पञ्चभ्यः, संयमासंयमं षड्भ्यः , सम्यग्दर्शनं सप्तभ्योऽपीति ।। द्वीपसमुद्रपर्वत-हृदतडागसरांसि ग्रामनगरपत्तनादयो विनिवेशा बादरो वनस्पतिकायो वृक्षतृणगुल्मादिः द्वीन्द्रियादयस्तिर्यग्योनिजा मनुष्या देवाश्चतुर्निकाया अपि न सन्ति । अन्यत्र "समुद्घातोपपातविक्रि यासाङ्गतिकनरकपालेभ्यः । उपपाततस्तु देवा रत्नप्रभायामेव सन्ति । नान्यासु । गतिस्तृतीयां यावत् ।। ' यच्च वायव आपो धारयन्ति न च विष्वग्गच्छन्ति,आपश्च पृथिवीं धारयन्ति न च प्रस्पन्दन्ते, पृथिव्यश्चाप्सु विलयं न गच्छन्ति, तत्तस्यानादिपारिणामिकस्य नित्यसन्ततेर्लोकविनिवेशस्य लोकस्थितिरेव हेतुर्भवति ।। १. अ. ४ सू. ४३. २. अ. ४ सू. ४४. ३. कायवाङ्मनःकृतशुभाशुभकर्मागमनरूपत्वमास्रवस्य लक्षणम् । ४. बादरः-स्थूलः । ५. स्याद्वादमअर्यां नवमश्लोकस्य चरमप्रघट्टके । ६. सांगतिकं-पूर्वजन्ममित्रभूतम् । ७. नरकपालाः-महापापिनः ।
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy