SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ ५९ तत्त्वार्थाधिगमसूत्रम् अत्राह । उक्तं भवता लोकाकाशेऽवगाहः । तदनन्तरं ऊर्ध्व गच्छत्यालोकान्तादिति । तत्र लोकः कः कतिविधो वा किंसंस्थितो वेति । अत्रोच्यते ।। पञ्चास्तिकायसमुदायो लोकः । ते चास्तिकायाः स्वतत्त्वतो विधानतो लक्षणतश्चोक्ता 'वक्ष्यन्ते च । स लोकः क्षेत्रविभागेन त्रिविधोऽधस्तिर्यगूज़ चेति । धर्माधर्मास्तिकायौ लोकव्यवस्थाहेतू । तयोरवगाहविशेषाल्लोकानुभावनियमात् सुप्रतिष्टकवज्राकृतिर्लोकः । अधोलोको गोकन्धरार्धाकृतिः । उक्तं ह्येतत् । भूमयः सप्ताधोऽधः पृथुतराच्छत्रातिच्छत्रसंस्थिता इति ता यथोक्ताः । तिर्यग्लोको झल्लाकृतिः । उर्ध्वलोको मृदङ्गाकृतिरिति । तत्र तिर्यग्लोकप्रसिद्ध्यर्थमिदमाकृतिमात्रमुच्यते ।। ६ ।। जम्बूद्वीपलवणादयः शुभनामानो द्वीपसमुद्राः ॥ ७ ॥ जम्बूद्वीपादयो द्वीपा लवणादयश्च समुद्राः शुभनामान इति । यावन्ति लोके शुभानि नामानि तन्नामान इत्यर्थः । शुभान्येव वा नामान्येषामिति ते शुभनामानः । द्वीपादनन्तरः समुद्रः समुद्रादनन्तरो द्वीपो यथासङ्ख्यम् । तद्यथा । जम्बूद्वीपो द्वीपो लवणोदः समुद्रः । धातकीखण्डो द्वीपः कालोदः समुद्रः । पुष्करवरो द्वीपः पुष्करोदः समुद्रः । वरुणवरो द्वीपो वरुणोदः समुद्रः । क्षीरवरो द्वीपः क्षीरोदः समुद्रः । घृतवरो द्वीपो घृतोदः समुद्रः । इक्षुवरो द्वीप इक्षुवरोदः समुद्रः । नन्दीश्वरो द्वीपो नन्दीश्वरवरोदः समुद्रः । अरुणवरो द्वीपोऽरुणवरोदः समुद्रः । इत्येवमसङ्खयेया द्वीपसमुद्राः स्वयम्भूरमणपर्यन्ता वेदितव्या इति ॥ ७ ॥ द्विर्द्धिर्विष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ॥ ८ ॥ सर्वे चैते द्वीपसमुद्रा यथाक्रममादितो द्विद्धिर्विष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः प्रत्येतव्याः । तद्यथा । योजनशतसहस्रविष्कम्भो जम्बूद्वीपस्य वक्ष्यते । तद्विगुणो लवणजलसमुद्रस्य । लवणजलसमुद्रविष्कम्भाद् द्विगुणो धातकीखण्डद्वीपस्य । इत्येवमास्वयम्भूरमणसमुद्रादिति ।। १. पञ्चमाध्याये । २. स्वयं भवन्तीति स्वयंभुवो देवास्ते यत्रागत्य रमन्त इति स्वयंभूरमणः, अर्धरज्जुप्रमाणः प्रान्तसमुद्रः । ३. विष्कम्भः-मध्यविस्तारः । . . .-...... ४. अ. ३ सू. ९.
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy