________________
तत्त्वार्थाधिगमसूत्रम्
संक्लिष्टकर्माणः पापाभिरतय आसुरीं गतिमनुप्राप्ताः कर्मक्लेशजा एते ताच्छील्यान्नारकाणां वेदनाः समुदीरयन्ति चित्राभिरुपपत्तिभिः । तद्यथा । तप्तायोरसपायननिष्टप्तायःस्तम्भालिङ्गनकूटशाल्मल्यग्रारोपणावतारणायोघनाभिघा
५७
तवासीक्षुरतक्षणक्षारतप्ततैलाभिषेचनायः कुम्भपाकाम्बरीषतर्जनयन्त्रपीडनायः शूलशलाकाभेदनक्रकचपाटनाङ्गारदहनवाहनसूचीशाड्वलापकर्षणैः तथा सिंहव्याघ्रद्वीपिश्वशृगालवृककोकमार्जारनकुलसर्पवायसगृध्रकाकोलूकश्येनादिखादनैः तप्तवालुकावतरणासिपत्रवनप्रवेशनवैतरण्यवतारणपरस्परयोधनादिभिरिति ।।
तथा
स्यादेतत् किमर्थं त एवं कुर्वन्तीति । अत्रोच्यते । पापकर्माभिरतय इत्युक्तम् I तद्यथा गोवृषभमहिषवराहमेषकुक्कुटवार्तकालावकान्मुष्टिमल्लांश्च युध्यमानान् परस्परं चाभिघ्नतः पश्यतां रागद्वेषाभिभूतानामकुशलानुबन्धिपुण्यानां नराणां परा प्रीतिरुत्पद्यते, तथा तेषामसुराणां नारकांस्तथा तानि कारयतामन्योन्यं घ्नतश्च पश्यतां परा प्रीतिरुत्पद्यते । ते हि दुष्टकन्दर्पास्तथाभूतान् दृष्ट्वाट्टहासं मुञ्चन्ति, चेलोत्क्षेपान्क्ष्वेडितास्फोटितावल्लिततलतालनिपातनांश्च कुर्वन्ति, महतश्च सिंहनादान्नदन्ति । तच्च तेषां सत्यपि देवत्वे सत्सु च कामिकेष्वन्येषु प्रीतिकारणेषु 'मायानिदानमिथ्यादर्शनशल्यतीव्रकषायोपहतस्यानालोचितभावदोषस्याप्रत्यवमर्षस्याकुशलानुबन्धिपुण्यकर्मणो बालतपसश्च भावदोषानुकर्षिणः फलं यत्सत्स्वप्यन्येषु प्रीतिहेतुष्व शुभा एव प्रीतिहेतवः समुत्पद्यन्ते ॥
इत्येवमप्रीतिकरं निरन्तरं सुतीव्रं दुःखमनुभवतां मरणमेव काङ्क्षतां तेषां न विपत्तिरकाले विद्यते कर्मनिर्धारितायुषाम् 1 उक्तं हि 1 २' औपपातिकचरमदेहोत्तमपुरुषासंख्येयवर्षायुषोऽनपवर्त्यायुष' इति । नैव तत्र शरणं विद्यते नाप्यपक्रमणम् । ततः कर्मवशादेव दग्धपाटितभिन्नच्छिन्नक्षतानि च तेषां सद्य एव संरोहन्ति शरीराणि दण्डराजिरिवाम्भसीति ॥
१. शल्यते बाध्यतेऽनेनेति शल्यम् क्लेशज्वरस्वरूपत्वे सति संयमस्वरूपभेदित्वं शल्यस्य लक्षणम् 1 तच्च शल्यं द्रव्यतस्तोमरादि, भावतस्तु इदं त्रिविधं मायानिदानमिथ्यादर्शनभेदात् (१) माया - निकृतिः सैव शल्यं मायाशल्यम् । (२) नितरां
दीयते-लूयते मोक्षफलमनिन्द्यब्रह्मचर्यादिसाध्यं कुशलकर्मकल्पतरुवनमनेन
देवर्द्धयादिप्रार्थनपरिणामनिशितासिनेति निदानम्, (३) मिथ्या-विपरीतं दर्शनं मिथ्यादर्शनमिति ।
२. अ. २ सू. ५२.
३. दण्डेन अम्भसि - जले कृता रेखेव ।