________________
५४
...
३-३ अशुभतरलेश्याः । कापोतलेश्या रत्नप्रभायाम् । ततस्तीव्रतरसंक्लेशाध्यवसाना कापोता शर्कराप्रभायाम् । ततस्तीव्रतरसंक्लेशाध्यवसाना कापोतनीला वालुकाप्रभायाम् । ततस्तीव्रतरसंक्लेशाध्यवसाना नीला पङ्कप्रभायाम् । ततस्तीव्रतरसंक्लेशाध्यवसाना नीलकृष्णा धूमप्रभायाम् । ततस्तीव्रतरसंक्लेशाध्यवसाना कृष्णा तमःप्रभायाम् । ततस्तीव्रतरसंक्लेशाध्यवसाना कृष्णैव महातमःप्रभायामिति ।
अशुभतरपरिणामः । 'बन्धनगतिसंस्थानभेदवर्णगन्धरसस्पर्शागुरु लघुशब्दाख्यो दशविधोऽशुभः पुद्गलपरिणामो नरकेषु । अशुभतरश्चाधोऽधः । तिर्यगूर्ध्वमधश्च सर्वतोऽनन्तेन भयानकेन नित्योत्तमकेन तमसा नित्यान्धकाराः श्लेष्ममूत्रपुरीषस्रोतोमलरुधिरवसामेदपूयानुलेपनतलाः । श्मशानमिव पूतिमांसकेशास्थिचर्मदन्तनखास्तीर्णभूमयः । श्वशृगालमार्जारनकुलसर्पमूषकहस्त्यश्वगोमानुषशवकोष्ठाशुभतरगन्धाः३ । हा मातर्धिगहो कष्टं बत मुञ्च तावद्धावत प्रसीद भर्ता वधीः कृपणकमित्यनुबद्धरुदितैस्तीव्रकरूणैर्दीनविक्लवैर्विलापैरास्विनैर्निनादैर्दीनकृपणकरुणैर्याचितैर्बाष्पसंनिरुद्धैनिस्तनितैर्गाढवेदनैः कूजितैः सन्तापोष्णैश्च निश्वासैरनुपरतभयस्वनाः ।
अशुभतरदेहाः । देहाः शरीराणि । अशुभनामप्रत्ययादशुभान्यङ्गोपाङ्गनिर्माणसंस्थानस्पर्शरसगन्धवर्णस्वराणि । हुण्डानि 'निनाण्डजशरीराकृतीनि । क्रूरकरुणबीभत्सप्रतिभयदर्शनानि दुःखभांज्यशुचीनि च
१. बन्धः-पुद्गलानां शरीरादिषु संश्लिष्यतामत्यन्ताशुभतरपरिणामो भवति । गतिः
नारकाणामप्रशस्तविहायोगतिनामकर्मो - (८-१२) - दयादशुभा भवत्युष्ट्रपतङ्गादिवत् । संस्थान-नरकाकृतिः नारकाकृतिश्च उभयमप्यालोक्यमानमेवोद्वेगमुपजनयति महाश्वभ्रवत्, पिशाचाकृतिवद्वा । भेदपरिणामोऽपि पुद्गलानामशुभः शरीरनरककुडयादिभ्यो
विभिद्यमानाः पुद्गलाः वर्णस्पर्शादिभिरशुभपरिणामा जायन्ते, ततश्च दुःखहेतवो भवन्ति । २. सर्वेषां हि जीवानां शरीराण्यात्मनो न गुरूणि नापि लघूनि इति अगुरुलघुपरिणामः । स
चानिष्टोऽनेकविधदुःखाश्रयत्वात् । ३. प्रेतभूतानां श्वादीनामुदरदौर्गन्ध्यवद्दौर्गन्ध्यविशिष्टाः । ४. अनुबद्धं-सततम् । ५. यत्र हस्तपादाद्यवयवाः बहुप्रायाः प्रमाणविसंवादिनश्च तद्हुण्डमित्युच्यते । ६. निर्लन-भिन्नम् ।