________________
तत्त्वार्थाधिगमसूत्रम्
तेषु शरीराणि भवन्ति । अतोऽशुभतराणि चाधोऽधः । सप्त धनूंषि त्रयो हस्ताः षडङ्गुलमिति शरीरोच्छ्रायो नारकाणां रत्नप्रभायाम् । 'द्विर्द्विः शेषासु । स्थितिवच्चोत्कृष्टजघन्यता वेदितव्या ।।
___ अशुभतरवेदनाः । अशुभतराश्च वेदना भवन्ति नरकेष्वधोऽधः । तद्यथा । उष्णवेदनास्तीवास्तीव्रतरास्तीव्रतमाश्चातृतीयायाः । उष्णशीते चतुर्थ्याम् । ३शीतोष्णे पञ्चम्याम् । परयोः शीताः शीततराश्चेति । तद्यथा । प्रथमशरत्काले चरमनिदाघे वा पित्तव्याधिप्रकोपाभिभूतशरीरस्य सर्वतो दीप्ताग्निराशिपरिवृतस्य व्यभ्रे नभसि मध्याह्ने निवातेऽतिरस्कृतातपस्य यादृगुष्णजं दुःखं भवति ततोऽनन्तगुणं प्रकृष्टं कष्टमुष्णवेदनेषु नरकेषु भवति । पौषमाघयोश्च मासयोस्तुषारलिप्तगात्रस्य रात्रौ हृदयकरचरणाधरौष्ठदशनायासिनि प्रतिसमयप्रवृद्ध शीतमारुते 'निरग्न्याश्रयप्रावरणस्य यादृक्शीतसमुद्भवं दुःखमशुभं भवति ततोऽनन्तगुणं प्रकृष्टं कष्टं शीतवेदनेषु नरकेषु भवति । यदि किलोष्णवेदनानरकादुत्क्षिप्य नारकः सुमहत्यङ्गारराशावुद्दीप्ते प्रक्षिप्येत स किल सुशीतां मृदुमारुतां शीतलां छायामिव प्राप्तः सुखमनुपमं विन्द्यान्निद्रां चोपलभेत, एवं कष्टतरं नारकमुष्णमाचक्षते । तथा किल यदि शीतवेदनानरकादुत्क्षिप्य नारकः कश्चिदाकाशे माघमासे निशि प्रवाते महति तुषारराशौ प्रक्षिप्येत सदन्तशब्दोत्तमकरप्रकम्पायासकरेऽपि तत्र सुखं विन्द्यादनुपमा निद्रां चोपलभेत एवं कष्टतरं नारकं शीतदुःखमाचक्षत इति ।।। __अशुभतरविक्रियाः । अशुभतराश्च विक्रिया नरकेषु नारकाणां भवन्ति । शुभं करिष्याम इत्यशुभतरमेव विकुर्वते । दुःखाभिभूतमनसश्च दुःखप्रतीकारं चिकीर्षवो गरीयस एव ते दुःखहेतून्विकुर्वत इति ।। ३ ॥
परस्परोदीरितदुःखाः ॥ ४ ॥ परस्परोदीरितानि दुःखानि नरकेषु नारकाणां भवन्ति । क्षेत्रस्वभावजनिताच्चाशुभात्पुद्गलपरिणामादित्यर्थः ।। १. रत्नप्रभानारकशरीराणां द्विगुणं द्वितीयस्यां नारकशरीरप्रमाणम् । तदपि द्विगुणं तृतीयस्याम् । ___एवं यावत्सप्तम्यां पञ्चधनुःशतानि पूर्णानि । २. बहूनामुष्णा स्तोकानां शीतेत्युष्णशीते । ३. बहूनां शीता स्तोकानामुष्णेति शीतोष्णे । ४. ऋतूनां द्विमासकत्वाद् द्वाभ्यां मासाभ्यां क्रमशः प्रथमत्वचरमत्वव्यवहारः । ५. आश्रयः-निवासस्थानम् । - - ६. परस्परोदीरितानि-अन्योन्यदत्तानि ।