SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् ५३ असंख्येयेषु लोकधातुष्वसंख्येयाः पृथिवीप्रस्तारा इत्यध्यवसिताः । तत्प्रतिषेधार्थं च सप्तग्रहणमिति ।। सर्वाश्चैता अधोऽधः 'पृथुतराः छत्रातिच्छत्रसंस्थिताः । घर्मा वंशा शैलाञ्जनारिष्टा माघव्या माघवीति चासां नामधेयानि यथासंख्यमेव भवन्ति । रत्नप्रभा घनभावेनाशीतं योजनशतसहस्रम्, शेषा द्वात्रिंशदष्टाविंशतिविंशत्यष्टादशषोडशाष्टाधिकमिति 1 सर्वे घनोदधयो विंशतियोजनसहस्राणि घनवाततनुवातास्त्वसंख्येयानि, अधोऽधस्तु घनतरा विशेषेणेति ॥ १ ॥ तासु नरकाः ॥ २ ॥ तासु रत्नप्रभाद्यासु भूषूर्ध्वमधश्चैकशो योजनसहस्रमेकैकं वर्जयित्वा मध्ये नरका भवन्ति । तद्यथा । उष्ट्रिकापिष्टपचनीलोहीकरकेन्द्रजानुकाजन्तोकायस्कुम्भायः कोष्ठादिसंस्थाना वज्रतलाः सीमन्तकोपक्रान्ता रौरवोऽच्युतो रौद्रो हाहारवो घातनः शोचनस्तापनः क्रन्दनो विलपनश्छेदनो भेदनः खटाखटः कालपिञ्जर इत्येवमाद्या अशुभनामानः कालमहाकालरौरवमहारौरवाप्रतिष्ठानपर्यन्ताः । रत्नप्रभायां नरकाणां प्रस्तारास्त्रयोदश । द्विद्व्यूनाः शेषासु । रत्नप्रभायां नरकवासानां त्रिंशच्छतसहस्राणि । शेषासु पञ्चविंशतिः पञ्चदश दश त्रीण्येकं पञ्चोनं नरकशतसहस्रमित्याषष्ठ्याः । सप्तम्यां तु पञ्चैव महानरका इति ॥ २ ॥ नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ॥ ३ ॥ I ते नरका भूमिक्रमेणाधोऽधो निर्माणतोऽशुभतराः । अशुभा रत्नप्रभायां, ततोऽशुभतराः शर्कराप्रभायां ततोऽप्यशुभतरा वालुकाप्रभायाम् । इत्येवमासप्तम्याः ॥ नित्यग्रहणं गतिजातिशरीराङ्गोपाङ्गकर्मनियमादेते लेश्यादयो भावा नरकगतौ नरकपञ्चेन्द्रियजातौ च नैरन्तर्येणाभवक्षयोद्वर्तनाद भवन्ति, कदाचिदक्षिनिमेषमात्रमपि न भवन्ति शुभा वा भवन्त्यतो नित्या इत्युच्यन्ते ।। न " १. एकरज्जुप्रमाणाविष्कम्भायामाभ्यां रत्नप्रभा । शर्कराप्रभार्धतृतीयरज्जुप्रमाणा वालुकाप्रभा चतूरज्जुप्रमाणा पंकप्रभा पञ्चरजुप्रमाणा धूमप्रभा रज्जुषट्कप्रमाणा तमः-प्रभार्धसप्तरज्जुप्रमाणा महातमः प्रभा सप्तरज्जुप्रमाणेति । २. छत्रमायामविष्कम्भाभ्यां लघु भवति तदधोवर्ति विस्तीर्णतरं तस्याप्यधो विशालतममित्यतः छत्रातिच्छत्रवत् स्थिताः । ३. घर्मा इति नाम रत्नप्रभा इति गोत्रम् । एवं क्रमेण सप्तानामपि ज्ञेयम् ।
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy