SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयोऽध्यायः । अत्राह । उक्तं भवता नारका इति गतिं प्रतीत्य जीवस्यौदयि'को भावः । तथा जन्मसु "नारकदेवानामुपपातः' । वक्ष्यति च स्थितौ “नारकाणां च द्वितीयादिषु' । आस्रवेषु 'बह्वारम्भपरिग्रहत्वं च नारकस्यायुष' इति ॥ तत्र के नारका नाम क्क चेति । अत्रोच्यते । नरकेषु भवा नारकाः । तत्र नरकप्रसिद्ध्यर्थमिदमुच्यते रत्नशर्करावालुकापङ्कधूमतमोमहातमःप्रभाभूमयो घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोऽधः पृथुतराः ॥ १ ॥ रत्नप्रभा शर्कराप्रभा वालुकाप्रभा पङ्कप्रभा धूमप्रभा तमःप्रभा महातमःप्रभा इत्येता भूमयो घनाम्बुवाताकाशप्रतिष्ठा भवन्त्येकैकशः सप्त अधोऽधः । रत्नप्रभाया अधः शर्कराप्रभा, शर्कराप्रभाया अधो वालुकाप्रभा । इत्येवं शेषाः । अम्बुवाताकाशप्रतिष्ठा इति सिद्धे घनग्रहणं क्रियते तेनायमर्थः प्रतीयते घनमेवाम्बु अधः पृथिव्याः । वातास्तु घनास्तनवश्चेति ॥ तदेवं खरपृथिवी "पङ्कप्रतिष्ठा, पङ्को घनोदधिवलयप्रतिष्ठो, घनोदधिवलयं धनवातवलयप्रतिष्ठं, घनवातवलयं तनुवातवलयप्रतिष्ठं, ततो महातमोभूतमाकाशम् । सर्वं चैतत्पृथिव्यादि तनुवातवलयान्तमाकाशप्रतिष्ठम् । आकाशं त्वात्मप्रतिष्ठम् । उक्तमवगाहनमाकाशस्येति । तदनेन क्रमेण लोकानुभावसंनिविष्टा असङ्ख्येययोजनकोटीकोट्यो विस्तृताः सप्त भूमयो रत्नप्रभाद्याः ॥ सप्तग्रहणं नियमार्थं, रत्नप्रभाद्या मा भूवन्नेकशो ह्यनियतसङ्ख्या इति । किं चान्यत् । अधः सप्तैवेत्यवधार्यते । ऊर्ध्वं त्वेकैवेति वक्ष्यते ॥ अपि च तन्त्रान्तरीया १. अ. २ सू. ६ २. अ. २ सू. ३५. ३. अ. ४ सू. ४३. ४. अ. ६ सू. १६. ५. रलप्रभायां सर्वाधस्तनयोजनसहस्रं पङ्क इत्युच्यते । इत्येवमाषष्ठ्याः । सप्तम्यां तु सार्धार्धपञ्चाशत्सहस्रयोजनानि । ६. तंत्रान्तरीया जिनप्रवचनबाह्याः । ते च प्रायः प्रस्तावान्मायासूनवीया एव गृह्यन्ते ।
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy