________________
तत्त्वार्थाधिगमसूत्रम्
कर्मापवर्तयति, न चास्य फलाभाव' इति ॥ किं चान्यत् । यथा वा धौतपटो जलार्द्र एव संहतश्चिरेण शोषमुपयाति, स एव च वितानितः सूर्यरश्मिवाय्वभिहतः क्षिप्रं शोषमुपयाति, न च संहते तस्मिन्नभूतस्नेहागमो, नापि वितानितेऽकृत्स्नशोषः, तद्वद्यथोक्तनिमित्तापवर्तनैः कर्मणः क्षिप्रं फलोपभोगो भवति । न च कृतप्रणाशाकृताभ्यागमाफल्यानि।।६२।।
इति तत्त्वार्थाधिगमसूत्रे स्वोपज्ञभाष्यसमेते
द्वितीयोऽध्यायः समाप्तः ॥
१ एतदुक्तं भवति । आजानान एव हि तदपवर्तनाकरणेन अपवर्तना/ कर्म अपवर्तयति ।
आहाररसादिविपरिणामवत् । किमर्थं पुनरपवर्तयति । फलोपभोगार्थमायुष्कर्मफलोपभोगाय । अनाभोगनिवर्तितेन वीर्यविशेषेणेति । न चास्यायुष्कर्मणः फलाभावो भवति । इयांस्तु विशेषः-क्रमपरिभोगे बहुकालः, संवर्तितपरिभोगे स्वल्प इति । न पुनरभुक्तं तत्र किंचित्कर्म परिशटतीति ।