________________
५०
__ - ----- --- २.६२
नाप्यायुष्कस्य जात्यन्तरानुबन्धः । किं तु यथोक्तैरु पक्रभैरभिहत स्य सर्वसन्दोहेनोदयप्राप्तमायुष्कं कर्मः शीघ्रं पच्यते तदपवर्तनमित्युच्यते । संहतशुष्कतृणराशिदहनवत् । यथा हि संहतस्य शुष्कस्यापि तृणराशेरवयवशः क्रमेण दह्यमानस्य चिरेण दाहो भवति तस्यैव शिथिलप्रकीर्णोपचितस्य सर्वतो युगपदादीपितस्य पवनोपक्रमाभिहतस्याशु दाहो भवति तद्वत् । यथा वा संख्येयनाचार्यः६ करणलाघवार्थ गुणकारभागहाराभ्यां राशिं छेदादेवापवर्तयति, न च संख्येयस्यार्थस्याभावो भवति, तद्वदुपक्रमाभिहतो मरणसमुद्घातदुःखातः कर्मप्रत्ययमनाभोगयोगपूर्वकं करणविशेषमुत्पाद्य फलोपभोगलाघवार्थं
१ अध्यवसानविषशस्त्रादिभिः । २ अभिप्लुतस्य । ३ सर्वात्मना साकल्येनेत्यर्थः । ४ प्राप्तविपाकमाशु भवति । यस्तु तस्य क्रमभावी विपाकः सोऽपवर्त्यते । अनुभवः पुनः
सर्वस्य युगपन्न निषिध्यते । इत्येषोऽपवर्तनशब्दार्थः । संहतत्वात्परिशेषवानपि तृणपुञ्जश्चिराय दह्यते यदा तु विरलितो भवत्यवयवशस्तदाशु भस्मसाद्भवति तद्वदायुषोऽप्यनुभवः । यदायुदृढसंहितमतिघनतया बन्धकाल एव परिणाममापादितं भवति पवनश्लेषवत् । तक्रमेण वेद्यमानं चिराय वेद्यते ।
गणिताचार्यः । गणितप्रक्रियायामाहितनैपुणः । ७ करणानि गुणकारभागहारापवर्तनोद्वर्तनादीनि । तत्र यो लघुः करणोपायः स्वल्पफलस्तेन
तत्फलमानयति गणिताभिज्ञत्वात् । तुल्येऽपि हि फलानयने गुणकारभागहारौ चिराय तत्फलं अभिनिर्वर्तयतः । स पुनर्गणितनिपुणो गुणकारभागहाराभ्यां चिरकालकारिभ्यां सकाशात् करणलाघवार्थमपवर्तनाहँ राशिच्छेदादेवार्थाधिकादपवर्तयति, षण्णवत्यादिकमनपवर्तनाहँ पुनर्लघुकरणाभिज्ञोऽपि न शक्नोत्येवापवर्तयितुमेकम् । पञ्चाशदुत्तरसहस्रादिकं गुणकारभागहारक्रममेवात्र प्रयोजयति । न च संख्येयार्थस्याभावो भवति । फलभूतस्य करणविशेषे सत्यपि प्रेप्सितफलाभेदमादर्शयति । मरणसमुद्घातो नाम स्वशरीरकादात्मप्रदेशापकर्षो मूर्छानुगतश्चेतनाविमुक्त इवाव्यक्तप्रबोधलक्षणोऽस्तमितसकलबहिर्वर्तिचेष्टाक्रियाविशेषः, स एव चातिचिररूढमूलप्रदेशोत्खननरूपत्वाद्दुःखं तेना” विषण्णः किंकर्तव्यताविमुखः ।