SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् तिर्यग्योनिजाश्च भवन्ति । 'सदेवकुरूत्तरकुरुषु सान्तरद्वीपकास्वकर्मभूमिषु कर्मभूमिषु च सुषमसुषमायां सुषमायां सुषमदुःषमायामित्यसंख्येयवर्षायुषो मनुष्या भवन्ति । अत्रैव बाह्येषु द्वीपेषु समुद्रेषु तिर्यग्योनिजा असंख्येयवर्षायुषो भवन्ति । औपपातिकाश्चासंख्येयवर्षायुषश्च निरुपक्रमाः । चरमदेहाः सोपक्रमा निरुपक्रमाश्चेति । एभ्य औपपातिकचरमदेहासंख्येयवर्षायुर्व्यः शेषा मनुष्यास्तिर्यग्योनिजाः सोपक्रमा निरुपक्रमाश्चापवत्यायुषोऽनपवत्यायुषश्च भवन्ति । तत्र येऽपवत्यार्युषस्तेषां विषशस्त्रकण्टकाग्न्युदकाह्यशिताजीर्णाशनिप्रपातोद्वन्धनश्वापदवज्रनिर्घातादिभिः क्षुत्पिपासाशीतोष्णादिभिश्च द्वन्द्वोपक्रमैरायुरपवर्त्यते । अपवर्तनं शीघ्रमन्तर्मुहूर्तात्कर्मफलोपभोगः, उपक्रमोऽपवर्तननिमित्तम् ।। अत्राह । यद्यपवर्तते कर्म तस्मात्कृतनाशः प्रसज्यते यस्मान्न वेद्यते । अथास्त्यायुष्कं कर्म म्रियते च तस्मादकृताभ्यागमः प्रसज्यते । येन सत्यायुष्के प्रियते च, ततश्चायुष्कस्य कर्मण आफल्यं प्रसज्यते । अनिष्टं चैतत् । एकभवस्थिति चायुष्कं कर्म न जात्यन्तरानुबन्धि तस्मानापवर्तनमायुषोऽस्तीति ।। अत्रोच्यते । कृतनाशाकृताभ्यागमाफल्यानि कर्मणो न विद्यन्ते । १ सह देवकुरुभिरुत्तरकुरवः सदेवकुरुत्तरकुरवः तत्र देवकुरुत्तरकुरुषु जम्बुद्वीपधातकी खण्डपुष्करद्वीपार्धवृत्तिषु ।। २ अ. ३ सू. १४, १५, १६. ३ अकर्मभूमिषु-हैमवतहरिवर्षरभ्यकहैरण्यवताख्यासु जम्बूद्वीपधातकीखण्डपुष्करवर द्वीपार्धवर्तिनीषु । ४ कर्मणो भूमयः । यत्र जाताः प्राणिनः सकलं कर्म क्षपयित्वा सिध्यन्ति तीर्थकरोपदेशात्ताः कर्मभूमयो भरतैरावतविदेहक्षेत्राणि पञ्चदश प्रत्येकं पञ्चभेदत्वात् । ५ अ. ४ सू. १५ ६ मनुष्यक्षेत्राबहिर्भूतेषु । ७ न ह्येषां प्राणापानाहारनिरोधाध्यवसाननिमित्तवेदनापराघातस्पर्शाख्याः सप्त वेदना विशेषाः सन्त्यायुषो भेदका उपक्रमा इत्यतो निरुपक्रमा एव । ८ कृतनाशः १ अकृताभ्यागमः २ कर्मणां फलराहित्यं ३ चेति दोषत्रयमनेन पूर्वपक्षण प्रतिपाद्यते । ९ अनेन पूर्वोक्तदोषत्रयं खण्ड्यते । 3 ur
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy