________________
४८
----
२.५२
स्त्रीवेदः पुंवेदो नपुंसकवेद इति । तस्मात्त्रिविधमेव लिङ्गमिति ॥ तत्र
नारकसम्मूर्छिनो नपुंसकानि ॥ ५० ॥ -- नारकाश्च सर्वे सम्मूर्छिनश्च नपुंसकान्येव भवन्ति । न स्त्रियो न पुमांसः । तेषां हि चारित्रमोहनीयनोकषायवेदेनीयाश्रयेषु त्रिषु वेदेषु नपुंसकवेदनीयमेवैकमशुभगतिनामापेक्षं पूर्वबद्धनिकाचितमुदयप्राप्तं भवति, नेतरे इति ।।५०॥
न देवाः ॥ ५१ ॥ 'देवाश्चतुर्निकाया अपि नपुंसकानि न भवन्ति । स्त्रियः पुमांसश्च भवन्ति । तेषां हि शुभगतिनामापेक्षे स्त्रीपुंवेदनीये पूर्वबद्धनिकाचिते उदयप्राप्ते द्वे एव भवतो नेतरत् । पारिशेष्याच्च गम्यते जराय्वण्डपोतजास्त्रिविधा भवन्ति स्त्रियः पुमांसो नपुंसकानीति ।।५१॥ ___ अत्राह । चतुर्गतावपि संसारे किं व्यवस्थिता स्थितिरायुष उताकालमृत्युरप्यस्तीति । अत्रोच्यते । द्विविधान्यायूंषि । अपवर्तनीयानि अनपवर्तनीयानि च । अनपवर्तनीयानि पुनर्द्विविधानि । सोपक्रमाणि निरुपक्रमाणि च । अपवर्तनीयानि तु नियतं सोपक्रमाणीति ।। तत्र
औपपातिकचरमदेहोत्तमपुरुषासंख्येयवर्षायुषोऽनपवायुषः ॥५२॥
औपपातिकाश्चरमदेहा उत्तमपुरुषा असंख्येयवर्षायुष इत्येतेऽनपवायुषो भवन्ति । तत्रौपपातिका नारकदेवाश्चेत्युक्तम् । चरमदेहा मनुष्या एव भवन्ति नान्ये । चरमदेहा अन्त्यदेहा इत्यर्थः । ये तेनैव शरीरेण सिध्यन्ति । उत्तमपुरुषास्तीर्थकर चक्रवर्त्यर्धचक्र वर्तिनः । असंख्येयवर्षायुषो मनुष्याः
१ अ. ४ सू. ११, १२, १३, १७. २ नपुंसकवेदनीयमबद्धत्वात् । ३ कारणान्तरानिश्चितावधेः प्राक् यस्य आयुषः क्षयस्तदायुः अपवर्तनीयम् । ४ केनापि कारणेन हासमनाप्नुवत् निश्चितकालावधि यदायुरुपभोग्यतां याति
तदनपवर्तनीयमुच्यते ॥ ५ चक्रवर्तिनः-भरतादयः। ६ अर्धचक्रवर्तिनः-रामकृष्णप्रतिकृष्णादयः।