SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ४७ तत्त्वार्थाधिगमसूत्रम् कारणतो' विषयतः२ स्वामितः३ प्रयोजनतः प्रमाणतः५ प्रदेशसंख्या तोऽवगाहनतः 'स्थितितोऽल्पबहुत्वत इत्येतेभ्यश्च नवभ्यो विशेषेभ्यः शरीराणां नानात्वं सिद्धमिति ॥४९॥ अत्राह । आसु चतसृषु संसारगतिषु को लिङ्गनियम इति । अत्रोच्यते । जीवस्यौदयिकेषु भावेषु व्याख्यायमानेषूक्तम् । त्रिविधमेव लिङ्गं स्त्रीलिङ्गं पुंल्लिङ्गं नपुंसकलिङ्गमिति ।। तथा चारित्रमोहे नोकषायवेदनीये त्रिविध एव वेदो"वक्ष्यते । १ स्थूलपुद्गलोपचितमूत्यौर्दारिकम् । न तथा वैक्रियादीनि । परं परं सूक्ष्ममिति (२-३८) वचनात् । २ विद्याधरौदारिकशरीराणि प्रत्यानन्दीश्वरादौदारिकस्य विषयः, जकाचारणं, प्रत्यारुचकवरपर्यन्तात्तिर्ययूर्ध्वमापाण्डकवनात् । वैक्रियमसंख्येयद्वीपसमुद्रविषयम् । आहारकस्य यावन्महाविदेहक्षेत्राणि तैजसकार्मणयोरासर्वलोकात् । औदारिकस्य मनुष्यतिर्यञ्चः । वैक्रियस्य देवनारकास्तिर्यङ्मनुष्याश्च केचित् । आहारकस्य चतुर्दशपूर्वधरमनुष्यसंयतः । तैजसकार्मणयोः सर्वसंसारिणः । औदारिकस्य धर्माधर्मसुखदुःखकेवलज्ञानावाप्त्यादि प्रयोजनं, वैक्रियस्य स्थूलसूक्ष्मैकत्वव्योमचरक्षितिगतिविषयाद्यनेकलक्षणा विभूतिः । आहारकस्य तु सूक्ष्मव्यवहितदुरवगाहार्थव्यवस्थितिः । तैजसस्याहारपाकः शापानुग्रहदानसामर्थ्य च । कार्मणस्य भवान्तरगतिपरिणामः ।। ५ सातिरेकं योजनसहस्रमौदारिकम् । योजनलक्षप्रमाणं वैक्रियम् । रलिप्रमाणमाहारकं लोकायामप्रमाणे तैजसकार्मणे । 'प्रदेशतोऽसंख्येयगुणं प्राक्तैजसादनन्तगुणे परे' इति प्रदेशभेद उक्तः (२-३९,४०) । सातिरेकयोजनसहस्रप्रमाणमौदारिकमसंख्येयगुणप्रदेशेषु यावत्सु अवगाढं भवति, तेभ्यो बहुतरकासंख्येयप्रदेशावगाढं योजनलक्षप्रमाणं वैक्रियं भवति । आहारकमाभ्यामल्पप्रदेशावगाढं भवति हस्तमात्रत्वात् । तैजसकामणे लोकान्तायताकाशश्रेण्यवगाढे भवतः । __ औदारिकं जघन्येन अन्तर्मुहूर्तस्थिति । उत्कर्षेण त्रिपल्योपमस्थिति । वैक्रियं जघन्येनान्तर्मुहूर्तस्थिति । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमस्थिति । आहारकमन्तरमुहूर्तस्थित्येव । तैजसकार्मणयोः संतानानुरोधात् अनादित्वमपर्यवसानता चाभव्यसंबन्धितया । अनादित्वं सपर्यवसानता च भव्यसंबन्धित्वेन । ९ सर्वस्तोकमाहारकम् । आहारकाद्वैक्रियशरीराण्यसंख्येयगुणानि । वैक्रियशरीरेभ्य औदारिकशरीराण्यसंख्येयगुणानि । औदारिकशरीरेभ्यस्तैजसकार्मणान्यनन्तगुणानि । १० कषायसहवर्तित्वात्कषायप्रेरणादपि । हास्यादिनवकस्योक्ता नोकषायकषायता । ___हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुंनपुंसकवेदा इति हास्यादयो नव । ११ - अ. ८ सू. १०
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy