SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् ४३ तेषां परं परं सूक्ष्मम् ॥ ३८ ॥ तेषामौदारिकादिशरीराणां परं परं सूक्ष्मं वेदितव्यम् । तद्यथा 1 औदारिकाद्वैक्रियं सूक्ष्मम् । वैक्रियादाहारकम् । आहारकात्तैजसम् । तैजसात्कार्मणमिति ।। ३८॥ प्रदेशतोऽसंख्येयगुणं प्राक् तैजसात् ॥ ३९ ॥ तेषां शरीराणां परं परमेव प्रदेशतोऽसंख्येयगुणं भवति प्राक् तैजसात् । औदारिकशरीरप्रदेशेभ्यो वैक्रियशरीरप्रदेशा असंख्येयगुणाः । वैक्रियशरीरप्रदेशेभ्य आहारकशरीरप्रदेशा असंख्येयगुणा इति ॥ ३९ ॥ अनन्तगुणे परे ॥ ४० ॥ परे द्वे शरीरे तैजसकार्मणे पूर्वतः पूर्वतः प्रदेशार्थतयानन्तगुणे भवतः । आहारकात्तैजसं प्रदेशतोऽनन्तगुणम् । तैजसात्कार्मणमनन्तगुणमिति ॥ ४० ॥ अप्रतिघाते ॥ ४१ ॥ एते द्वे शरीरे तैजसकार्मणे अन्यत्र लोकान्तात्सर्वत्राप्रतिघाते भवतः ॥ ४१॥ अनादिसम्बन्धे च ॥ ४२ ॥ ताभ्यां तैजसकार्मणाभ्यामनादिसम्बन्धो जीवस्येत्यनादिसम्बन्ध इति ॥४२॥ सर्वस्य ॥ ४३ ॥ सर्वस्य चैते तैजसकार्मणे शरीरे संसारिणो जीवस्य भवतः । एके त्वाचार्या नयवादापेक्षं व्याचक्षते । कार्मणमेवैकमनादिसम्बन्धम् । तेनैवैकेन जीवस्यानादिः सम्बन्धो भवतीति । तैजसं तु' लब्ध्यपेक्षं भवति । सा च तैजसलब्धिर्न सर्वस्य, कस्यचिदेव भवति 1 क्रोधप्रसादनिमित्तौ शापानुग्रह प्रति १ तुशब्दोऽवधारकः । तैजसं लब्ध्यपेक्षमेव भवति = सत्तामासादयति । सा च तैजसलब्धिर्विशिष्टतपोऽनुष्ठानादिभिः साधनैः कस्यचिदेव भवति, न सर्वस्य जन्तोस्तत्साधनकलापविमुखस्य । स च - तद्योग्यसाधनसमासादिततेजोलब्धिस्तेजोनिसर्गमातनोति ।
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy