SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ----- २-४५ तेजोनिसर्गशीतरश्मिनिसर्गकरम्', तथा 'भ्राजिष्णुप्रभासमुदयच्छायानिर्वर्तकं तैजसं शरीरेषु मणिज्वलनज्योतिष्कविमानवदिति ॥ ४३॥ तदादीनि भाज्यानि युगपदेकस्याचतुर्थ्यः ॥ ४४ ॥ ते आदिनी एषामिति तदादीनि । तैजसकार्मणे यावत्संसारभाविनी आदि कृत्वा, शेषाणि युगपदेकस्य जीवस्य भाज्यान्याचतुर्यः । तद्यथा । तैजसकार्मणे वा स्याताम् । तैजसकार्मणौदारिकाणि वा स्युः । तैजसकामणवैक्रियाणि वा स्युः । तैजसकामणौदारिकवैक्रियाणि वा स्युः । तैजसकार्मणौदारिकाहारकाणि वा स्युः । कार्मणमेव वा स्यात् । कार्मणौदारिके वा स्याताम् । कार्मणवैक्रिये वा स्याताम् कार्मणौदारिकवैक्रियाणि वा स्युः । कार्मणौदारिकाहारकाणि वा स्युः । कार्मणतैजसौदारिकवैक्रियाणि वा स्युः । कार्मणतैजसौदारिकाऽऽहारकाणि वा स्युः । न तु कदाचिद्युगपत्पञ्च भवन्ति । नापि वैक्रियाहारके युगपद्भवतः । स्वामिविशेषादिति वक्ष्यते ॥४४॥ निरुपभोगमन्त्यम् ॥ ४५ ॥ अन्त्यमिति सूत्रक्रमप्रामाण्यात्कार्मणमाह । तन्निरुपभोगम् । न सुखदुःखे तेनोपभुज्येते, न तेन कर्म बध्यते, न वेद्यते, नापि निर्जीर्यत इत्यर्थः । शेषाणि तु सोपभोगानि । यस्मात्सुखदुःखे तैरुपभुज्येते कर्म बध्यते वेद्यते निर्जीर्यते च तस्मात्सोपभोगानीति ॥४५॥ १ क्रोधनिमित्तशापप्रदानाभिमुख उष्णतेजोनिसर्गं करोति । प्रसादनिमित्तानुग्रहाभिमुखः शीतरश्मिनिसर्गकरो भवति । शीता रश्मयो यस्य निसृज्यमाने तेजोविशेषस्य स शीतरश्मिः, शीतरश्मिश्चासौ निसर्गश्च शीतरश्मिनिसर्गस्तत्करणशीलं शीतरश्मिनिसर्गकरं तैजसम् । भ्राजनशीलो भ्राजिष्णुः प्रभाणां समुदयस्तस्य छाया आभा भ्राजिष्णुप्रभासमुदयछाया । तस्याश्छायानिर्वर्तकमुत्पादकं तैजसं शरीरेष्वौदारिकादिकेषु केषुचित् । ३ यथा हि मणयः स्फटिकाङ्कवैडूर्यादयो भ्राजिष्णुछायाविमलपुद्गलारब्धत्वाञ्चलनो वा निरस्तप्रत्यासन्नतिमिरव्रातः प्रद्योतते, स्वतेजसा, ज्योतिष्कदेवानां वा चन्द्रादित्यादीनां विमानान्यतिभास्वराणि निर्मलद्रव्यारब्धत्वात्तथा तैजसशरीरापेक्षमौदारिकादिषु शरीरेषु केषुचिदेव स्फुरन्मजाजालमुपलभ्यते न सर्वेषु । अन्यथा तदभावात् । ४ अ. २ सू. ४७, ४९. ५ अनुभूयमानमेवेह निर्जीर्यते । निरसतामापद्यमानं परिशय्यात्मप्रदेशेभ्यः पादलेशेनमुक्तं रसकुसुम्भकं निजीर्णमुच्यते ।
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy