________________
४२
२-३७ ।
जरायवण्डपोतजानां गर्भः ॥ ३४॥ जरायुजानां' मनुष्य-गो-महिषाजाविकाश्व-खरोष्ट्र-मृग-चमर-वराह-गवयसिंह- रेव्याघ्रर्भ-द्वीपि-श्व-शृगाल-मार्जारादीनाम् । अण्डजानांसर्प-गोधा-कृकलाशगृहकोकिलिकामत्स्य-कूर्म-नक्र-शिशुमारादीनाम् । पक्षिणां च लोमपक्षाणां हंस-चाष-शुक-गृध्र-श्येन-पारावत-काक-मयूर-मद्गु-बक-बलाकादीनाम् । पोतजाना शल्लक-हस्ति-श्वाविल्ला-पक-शश-शारिका-नकुल-मूषिकादीनाम् । पक्षिणां च चर्मपक्षाणां जलूकावल्गुलि-भारण्ड-पक्षिविरालादीनां गर्भो जन्मेति ॥३४॥
नारकदेवानामुपपातः ॥ ३५ ॥ नारकाणां देवानां चोपपातो जन्मेति ॥ ३५ ॥
शेषाणां सम्मूर्छनम् ॥ ३६ ॥ जराय्वण्डपोतजनारकदेवेभ्यः शेषाणां सम्मूर्च्छनं जन्म । उभयावधारणं चात्र भवति । जरायुजादीनामेव गर्भः । गर्भ एव जरायुजादीनाम् । नारकदेवानामेवोपपातः । उपपात एव नारकदेवानाम् । शेषाणामेव सम्मूर्छनम् । सम्मूर्च्छनमेव शेषाणाम् ।। ३६ ॥ ___ औदारिकवैक्रियाहारकतैजसकार्मणानि शरीराणि ॥ ३७ ॥
औदारिकं वैक्रियमाहारकं तैजसं कार्मणमित्येतानि पञ्च शरीराणि संसारिणां जीवानां भवन्ति ।। ३७ ॥
१ जालवत् प्राणिपरिवरणरूपत्वे सति विततमांसशोणितरूपत्वं जरायोर्लक्षणम् । तत्र जाता
जरायुजाः । २ चमरो नामारण्यो गौः । ३ ऋक्षः-भल्लूकः। .४ द्वीपी-व्याघ्रविशेषः । ५ नखत्वक्सदृशोपात्तकाठिन्ये सति शुक्रशोणितपरिवरणरूपं यन्मण्डलं तद्रूपत्वमण्डस्य । तत्र
जाता अण्डजाः । ६ शिशुमारः-मत्स्यविशेषः । ७ पोता एव जाताः पोतजाः शुद्धप्रसवा न जराय्वादिना वेष्टिताः । ८ अ. २ सू. ४९ भाष्ये विवृतं शरीररचनमेतदीयम् ।