SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् ४१ कायवाङ्मनःप्राणापानाः पुद्गलानामुपकारः । नामप्रत्ययाः सर्वतो योगविशेषादिति 'वक्ष्यामः । तज्जन्म । तच्च त्रिविधम् । तद्यथा सम्मूर्छन गर्भोपपाता जन्म ॥ ३२ ॥ सम्मूर्छनं गर्भ उपपात इत्येतत्रिविधं जन्म ॥३२॥ सचित्तशीतसंवृत्ताः सेतरा मिश्राश्चैकशस्तद्योनयः ॥ ३३ ॥ संसारे जीवानामस्य त्रिविधस्य जन्मन एताः सचित्तादयः सप्रतिपक्षा मिश्राश्चैकशो 'योनयो भवन्ति । तद्यथा । सचित्ता अचित्ता “सचित्ताचित्ता शीता १०उष्णा 'शीतोष्णा १२संवृता १३विवृता १४संवृतविवृता इति । तत्र देवनारकानामचित्ता योनिः । गर्भजन्मनां मिश्रा । त्रिविधान्येषाम् । गर्भजन्मनां देवानां च शीतोष्णा । तेजःकायस्योष्णा । त्रिविधान्येषाम् । नारकैकेन्द्रियदेवानां संवृत्ता । गर्भजन्मनां मिश्रा । विवृतान्येषामिति ॥ ३३ ॥ १ अ. ८ सू. २५. २ गर्भसामग्री विना समुद्भूतस्वरूपत्वं संमूर्छनस्य लक्षणम् । लोकत्रये यथायोगं देहावयवविरचनरूपत्वं वा । ३ शुक्रशोणितसंमीलनाधारप्रदेशवत्त्वं गर्भस्य लक्षणम् । ४ क्षेत्रप्राप्तिमात्रनिमित्तकं यजन्म तद्रूपत्वम् । गर्भसंमूर्छनप्रकारराहित्येन जायमानत्वं वा । ५ "यु" मिश्रणे, युवन्ति तैजसकार्मणशरीरवन्तः सन्तः औदारिकादिशरीर प्रायोग्यपुद्गलस्कन्धसमुदयेन मिश्रीभवन्त्यस्यामिति योनिरुत्पत्तिस्थानम् ।। ६ जीवप्रदेशैः सहान्योन्यानुगमस्वीकृतजीवद्देहादिरूपं यजन्तूत्पत्तिस्थानं तत् सचित्ताया लक्षणम् । जीवप्रदेशैः संबन्धरूपत्वं वा । ७ शुष्ककाष्ठादिरूपं यज्जन्तूत्पत्तिस्थानं तत् । सर्वथा जीवप्रदेशसंबन्धरहितत्वं वा अचित्ताया लक्षणम् । ८ उभयसंबन्धरहितत्वं सचित्ताचित्तालक्षणम् । ९ शीतस्पर्शवत्त्वे सति जन्तूत्पत्तिस्थानत्वं शीतयोनेर्लक्षणम् । १० उष्णस्पर्शवत्त्वे सति जन्तूत्पत्तिस्थानरूपत्वमुष्णयोनेर्लक्षणम् । ११ शीतोष्णपरिणामत्वे सति जन्तूत्पत्तिस्थानरूपत्वं शीतोष्णयोनेर्लक्षणम् । १२ दिव्यशय्यादिवद्वस्त्राद्यावृतस्थानरूपत्वं संवृतयोनेर्लक्षणम् । जन्तूत्पत्त्याधारवत्त्वे सति __अनुपलक्ष्यमाणस्थानविशेषरूपत्वं वा । १३ जन्तूत्पत्त्याधारवत्त्वे सति स्पष्टमुपलक्ष्यमाणस्थानविशेषरूपत्वं विवृतयोनेर्लक्षणम् । १४ बहिर्दृश्यमप्यदृश्यमध्यं जन्तूत्पत्तिस्थानं संवृत्तविवृत्तालक्षणम् ।
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy