________________
४० .
२.३१
शरीरिणां च जीवानां विग्रहवती चाविग्रहवती च प्रयोगपरिणावशात् । न तु तत्र विग्रहनियम इति ॥२९॥ अत्राह । अथ विग्रहस्य किं परिमाणमिति । अत्रोच्यते । 'क्षेत्रतो भाज्यम् । कालतस्तु
एकसमयोऽविग्रहः ॥ ३० ॥ एकसमयोऽविग्रहो भवति । अक्ग्रिहा गतिरालोकान्तादप्येकेन समयेन भवति । एकविग्रहा' द्वाभ्याम् । द्विविग्रहा त्रिभिः । त्रिविग्रहा चतुर्भिरिति । अत्र 'भङ्गप्ररूपणा कार्येति ॥ ३०॥
एकं द्वौ वानाहारकः ॥ ३१ ॥ विग्रहगतिसमापन्नो जीव एकं वा समयं द्वौ वानाहारको भवति । शेषं कालमनुसमयमाहारयति । कथमेकं द्वौ वानाहारको न बहूनीत्यत्र भङ्गप्ररूपणा कार्या ॥ ३१ ॥
अत्राह । एवमिदानीं भवक्षये जीवोऽविग्रहया विग्रहवत्या वा गत्या गतः कथं पुनर्जायत इति । अत्रोच्यते । उपपातक्षेत्रं स्वकर्मवशात्प्राप्तः शरीरार्थं पुद्गलग्रहणं करोति । सकषायत्वाज्जीवः कर्मणो योग्यान्पुद्गलानादत्त इति ।
१ क्षेत्रापेक्षया । २ भवान्तरालवर्तितायां जन्तोगतिपरिणतस्यैकेन समयेनातिक्रान्तेन वक्रा गतिर्जायत इति । ३ ऋज्वी गतिः क्षेत्रमङ्गीकृत्य कदाचिदव्यवहितश्रेण्यन्तरमात्र एव विरमति जन्तोरुत्पादवशात्
। कदाचिच्छ्रेणिद्वयमतिक्रम्योपरमत्यालोकान्ताद्वा सिध्यमानस्य भवतीत्येकसमय
परिमाणमभेदवर्ति, सर्वत्र गतिविशेषात् ।। ४ एको विग्रहो यस्यां सैकविग्रहा पूर्वापरसमयावधिकत्वात् विग्रहस्य सामर्थ्यान्निश्चीयते,
द्वाभ्यां समयाभ्यां निष्पाद्यत एकविग्रह इति । एवं द्वित्रिविग्रहयोरपि वाच्यम् । अत्रैवंविधे विचारप्रस्तावे भङ्गा विकल्पास्तेषां प्ररूपणा विभावना कार्या । सा चैवं कार्या । नारकाः कदाचित्सर्व एव विग्रहगतयो भवन्ति । अथवा अविग्रहगतयश्च विग्रहगतिश्चैकः स्यात् । अथवा अविग्रहगतयो विग्रहगतयश्चेति ।
औदारिकादिपुद्गलानामादानरूपत्वमाहारस्य लक्षणम् । तादृशाहाराभावरूपत्वमनाहारस्य लक्षणम् । तद्वांश्चानाहारकः । विग्रहगतिसमापनो जीवः सामर्थ्याद्विग्रहापेक्षत्वात् द्विविग्रहां त्रिविग्रहां वानुप्राप्तो गृह्यते । तत्र द्विविग्रहायामेकं समयं मध्यमं, त्रिविग्रहायां द्वौ समयावनाहारको मध्यमौ भवति ।