________________
३९
तत्त्वार्थाधिगमसूत्रम् इत्यर्थः । 'अन्यत्र तु यथोक्तः कायवाङ्मनोयोग' इत्यर्थः ।।२६।।
अनुश्रेणि गतिः ॥ २७ ॥ सर्वा गतिर्जीवानां पुद्गलानां चाकाशप्रदेशानुश्रेणि' भवति, विश्रेणिर्न भवतीति गतिनियम इति ।। २७ ॥
अविग्रहा' जीवस्य ॥ २८ ॥ सिध्यमानगतिर्जीवस्य नियतमविग्रहा भवतीति ।
_ विग्रहवती च संसारिणः प्राक् चतुर्थ्यः ॥ २९ ॥ जात्यन्तरसंक्रान्तौ संसारिणो जीवस्य विग्रहवती चाविग्रहा च गतिर्भवति । उपपातक्षेत्रवशात् तिर्यगूर्ध्वमधश्च प्राक् चतुर्थ्य इति । येषां विग्रहवती तेषां विग्रहाः प्राक् चतुर्यो भवन्ति । 'अविग्रहा एकविग्रहा द्विविग्रहा त्रिविग्रहा इत्येताश्चतुःसमयपराश्चतुर्विधा गतयो भवन्ति । परतो न संभवन्ति । प्रतिघाताभावाद्विग्रहनिमित्ताभावाच्च । विग्रहो वक्रितम्, विग्रहोऽवग्रहः श्रेण्यन्तरसंक्रान्तिरित्यनर्थान्तरम् । पुद्गलानामप्येवमेव ,
१ अयं च नियमोऽन्तर्गतेरेव क्रियते न कार्मणस्येति ख्यापयत्राह-अन्यत्र तु यथोक्तः
'कायवाङ्मनोयोग' - इति । अन्तर्गतेरन्यत्र यथाभिहिता आगमे कायादियोगा भवति । तुशब्दो गत्यन्तरविशेषप्रदर्शनपरतयोक्तः । तद्यथा नारकगर्भव्युत्क्रान्तितिर्यग्मनुष्यदेवानां
त्रयोऽपि योगाः संमूर्छनजन्मभाजां तिर्यग्मनुष्याणां कायवाग्योगावेव । २ आकाशप्रदेशानुश्रेणिरूपेण जीवपुद्गलानां या गतिः, तद्रूपत्वं अनुश्रेणिगतेर्लक्षणम् ।
आकाशप्रदेशपंक्त्यनुसारेण गमनरूपत्वं वा । उक्तलक्षणायाः श्रेणेविंगता या गतिः सा विश्रेणिर्जीवानाम् । ३ ऋजुगतिका। ४ उपपातक्षेत्रं यत्र जन्म प्रतिपत्स्यते तस्य वशः आनुलोम्यमनुकूलता । तस्मात्कारणात् । ५ यस्योपपातक्षेत्रं समश्रेणिव्यवस्थितमुत्पित्सोः प्राणिनः स ऋज्वायतां श्रेणिमनुत्पत्योत्पद्यते
तत्रैकेन समयेन वक्रमकुर्वाणः कंदाचित्तदेवोपपातक्षेत्रं विश्रेणिस्थं भवति । तदैकविग्रहा
द्विविग्रहा चेति तिस्रो गतयो निष्पद्यन्ते । आकाशप्रदेशश्रेणीलिखित्वा प्रत्यक्षीक्रियन्ते । ६ सिध्यमानगतेरेव प्रतिघाताभावः । प्रतिघातकं हि कर्म तदभावादित्यर्थः । तथा जन्तुना
एकविग्रहया गत्या यत्स्थानं यातव्यं तदसौ समयद्वयेनैव प्राप्नोति । उपपातक्षेत्रवशात् न ततोऽपि श्रेण्यन्तरमातक्रामयतीत्यतो. विग्रहनिमित्ताभावादुच्यते । विग्रहनिमित्त उपपातक्षेत्रवशः । इत्येवं द्वित्रिविग्रहयोर्योजनीयम् ।