SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ३८ २-२६ 'संज्ञिनः समनस्काः ॥२५॥ संप्रधारणसंज्ञायां संज्ञिनो जीवाः समनस्का भवन्ति । सर्वे नारकदेवा गर्भव्युक्रान्तयश्च मनुष्यास्तिर्यग्योनिजाश्च केचित् ॥ ईहोपोहयुक्ता गुणदोषविचारणात्मिका संप्रधारणसंज्ञा । तां प्रति संज्ञिनो विवक्षिताः । अन्यथा ह्याहारभयमैथुनपरिग्रहसंज्ञाभिः सर्व एव जीवाः संज्ञिन इति ॥ २५ ॥ विग्रहगतौ कर्मयोगः ॥ २६ ॥ ३विग्रहगतिसमापन्नस्य जीवस्य 'कर्मकृत एव योगो भवति । कर्मशरीरयोग' १ संज्ञानं संज्ञा भूतभवद्भाविभावस्वभावपर्यालोचनम् । मानसक्रियाविशेषो वा सा विद्यते यस्य स संज्ञी । किंच ह्यस्तने दिवसेऽहमेवमकार्षम् । श्वस्तने त्वेवमन्यथा वा करिष्यामीति चिन्तनं सा दीर्घकालिकी संज्ञेत्युच्यते । द्वित्रिचतुरिन्द्रियाणां हि यद्यपि हेतुवादोपदेशिकसंज्ञया भवति वर्तमानकालिकस्मरणं तथापि ते 'दीनारमात्रेण कुतो धनवान्' इति न्यायादसंज्ञिन एव बोध्याः । अतीतानागतयोश्चिन्तनवैकल्यात् । अतो दीर्घकालिकसंज्ञयैव संज्ञिताव्यवहारः । संज्ञा त्रिधा हेतुवादोपदेशिकी दीर्घकालिकी दृष्टिवादोपदेशिकी चेति । अत्र तृतीया तु सम्यग्दर्शनवतामेव संज्ञिपञ्चेन्द्रियाणां भवति तदपेक्षया सर्वे मिथ्यात्विसंसारजीवा असंज्ञिन इत्युच्यमानाः स्युः । आहारसंज्ञा-आहाराभिलाषरूपः क्षुद्वेदनप्रभवः आत्मपरिणामविशेषः । भयसंज्ञाहीनसत्त्वतया मतिभयवार्ताश्रवणभीषणदर्शनादिजनिता बुद्धिस्तया तदर्थोपयोगेन इहलोकादिभयलक्षणार्थपर्यालोचनेनेति । मैथुनसंज्ञा-मैथुनं संज्ञायतेऽनयेति मैथुनसंज्ञा पुंवेदोदयान्मैथुनाय स्त्र्यङ्गालोकनप्रसन्नवदनसंस्तम्भितोरुवेपथुप्रभृतिलक्षणा क्रिया । परिग्रहसंज्ञा-तीव्रलोभोदयात्परिग्रहाभिलाषः । ३ गतिरन्तरालवर्तिनी द्विधा, ऋज्वी वक्रा च, ऋची तावत् पूर्वशरीर योगोत्यापितप्रयत्नविशेषादेव गतिरिष्यते । धनुर्व्याविमोक्षाहितसंस्कारेषुगमनवत् । तस्यां च पूर्वकः स एव योगो वाच्यः । अतोऽन्यस्यानुविग्रहगतौ कर्मयोगः विग्रहो वक्रमुच्यते, विग्रहेण युक्ता गतिर्विग्रहगति । विग्रहप्रधाना वा गतिर्विग्रहगतिः । तस्यां विग्रहगतौ कर्माष्टकेनैव योगो न शेषौदारिकादिकायवाङ्मनोव्यापार इति । ४ कार्मणशरीरकृतैव चेष्टेत्यर्थः । अ. २ सू. ४९, अ. ८ सू. ११ ५ कर्मैव शरीरं कार्मणम् ।
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy