________________
तत्त्वार्थाधिगमसूत्रम्
३७
श्रुतमनिन्द्रियस्य ॥२२॥
श्रुतज्ञानं द्विविध' मनेकद्वादशविधं नोइन्द्रियस्यार्थः ||२२||
अत्राह । उक्तं भवता पृथिव्यब्वनस्पतितेजोवायवो द्वीन्द्रियादयश्च नव जीवनिकायाः । पञ्चेन्द्रियाणि चेति । तत्किं कस्येन्द्रियमिति । अत्रोच्यते -
वाय्वन्तानामेकम् ॥२३॥
पृथिव्यादीनां वाय्वन्तानां जीवनिकायानामेवेन्द्रियं सूत्रक्रमप्रामाण्यात्प्रथमं स्पर्शनमेवेत्यर्थः ।।२३॥
कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि ॥२४॥
कृम्यादीनां पिपीलिकादीनां भ्रमरादीनां मनुष्यादीनां च यथासङ्क्षयमेकैकवृद्धानीन्द्रियाणि भवन्ति यथाक्रमम् । तद्यथा । कृम्यादीनां अपादिकनूपुरक- गण्डूपद- शङ्ख- शुक्तिका शम्बूका जलौका-प्रभृतीनामेकेन्द्रियेभ्यः पृथिव्यादिभ्यः एकेन वृद्धे स्पर्शनरसनेन्द्रिये भवतः । ततोऽप्येकेन वृद्धानि पिपीलिकारोहिणिका - उपचिका कुन्धु- तुंबुरुक - त्रपुसबीज - कर्पासास्थिका-शतपद्युत्पतकतृणपत्रकाष्ठहारकप्रभृतीनां त्रीणि स्पर्शनरसनघ्राणानि ततोऽप्येकेन वृद्धानि भ्रमर-वटर-सारङ्ग-मक्षिका-दंश-मशक - वृश्चिक - नन्द्यावर्त-कीटपतङ्गादीनां चत्वारि स्पर्शनरसनघ्राणचक्षूंषि 1 शेषाणां च तिर्यग्योनिजानां मत्स्योरगभुजङ्गपक्षि-चतुष्पदानां सर्वेषां च नारकमनुष्यदेवानां पञ्चेन्द्रियाणीति ।।२४।।
अत्राह । उक्तं भवता द्विविधा जीवाः । समनस्का अमनस्काश्चेति । तत्र के समनस्का इति । अत्रोच्यते -
१ अङ्गबाह्यं, अङ्गान्तरगतं च । आद्यं - आवश्यकाद्यनेकभेदम् । द्वितीयमाचाराङ्गादिद्वादशभेदम् ।
२ नोइन्द्रियस्य- मनसः ।
३
अर्थः- विषयः ।
४ अतः प्रभृतिसूत्रसमाप्तिपर्यन्तं ग्रन्थः श्रीहेमचन्द्राचार्यैः प्रमाणमीमांसायां किंचिद्भेदेन शब्दशः संगृहीतः (पृ. २८/२९) । अपादिकादयो जन्तवः संप्रदायप्रसिद्धानुसारं ज्ञातुं शक्याः । कोशादिष्वेषां शब्दानामनुपलम्भात् ।