________________
३६
द्विविधानि ॥ १६ ॥ द्विविधानीन्द्रियाणि भवन्ति । द्रव्येन्द्रियाणि भावेन्द्रियाणि च ॥ १६ ॥ तत्र -
निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ॥ १७ ॥ निर्वृत्तीन्द्रियमुपकरणेन्द्रियं च द्विविधं द्रव्येन्द्रियम् । निर्वृत्तिरङ्गोपाङ्गनामनिर्वर्तितानीन्द्रियद्वाराणि, कर्मविशेषसंस्कृताः शरीरप्रदेशाः । निर्माणना'माङ्गोपाङ्गप्रत्यया मूलगुणनिर्वर्तनेत्यर्थः । उपकरणं बाह्यमभ्यन्तरं च । निर्वर्तितस्यानुपघातानुग्रहाभ्यामुपकारीति ॥१७॥
लब्ध्युपयोगौ भावेन्द्रियम् ॥ १८ ॥ लब्धिरुपयोगश्च भावेन्द्रियं भवति । लब्धिर्नाम गतिजात्यादिनामकर्मजनिता तदावरणीयकर्मक्षयोपशमजनिता चेन्द्रियाश्रयकर्मोदयनिर्वृत्ता च जीवस्य भवति । सा पञ्चविधा । तद्यथा । स्पर्शनेन्द्रियलब्धिः रसनेन्द्रियलब्धिः घ्राणेन्द्रियलब्धिः चक्षुरिन्द्रियलब्धिः श्रोत्रेन्द्रियलब्धिरिति ॥ १८॥
___उपयोगः स्पर्शादिषु ॥ १९ ॥ स्पर्शादिषु मतिज्ञानोपयोग इत्यर्थः । उक्तमेतदुपयोगो लक्षणम् । उपयोगः प्रणिधानम् । आयोगस्तद्भावः परिणाम इत्यर्थः । एषां च सत्यां निर्वृत्तावुपकरणोपयोगी भवतः । सत्यां च लब्धौ निर्वृत्त्युपकरणोपयोगा भवन्ति । निर्वृत्त्यादीनामेकतराभावे विषयालोचनं न भवति ।। १९ । अत्राह । उक्तं भवता पञ्चेन्द्रियाणीति । तत्कानि तानीन्द्रियाणीत्युच्यते
__स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि ॥२०॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रमित्येतानि पञ्चेन्द्रियाणि ॥२०
स्पर्शरसगन्धवर्णशब्दास्तेषामर्थाः ॥२१॥ एतेषामिन्द्रियाणामेते स्पर्शादयोऽर्था भवन्ति यथासंख्यम् ॥२१॥
१/२ अ. ८ सू. १२. ३ अ. २ सू. ८.