SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् संसारिणो जीवा द्विविधा भवन्ति 'त्रसाः स्थावराश्च ।।१२।। तत्र पृथिव्यब्बनस्पतयः स्थावराः ॥ १३ ॥ पृथिवीकायिका अप्कायिका वनस्पतिकायिका इत्येते त्रिविधाः स्थावरा जीवा भवन्ति । तत्र पृथिवीकायोऽनेकविधः शुद्धपृथिवीशर्करावालुकादिः । अप्कायोऽनेकविधो हिमादिः । वनस्पतिकायोऽनेकविधः शैवलादिः ॥१३॥ तेजोवायू द्वीन्द्रियादयश्च वसाः ॥१४॥ तेजःकायिका अङ्गारादयः । वायुकायिका उत्कलिकादयः । द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रिया इत्येते त्रसा भवन्ति । संसारिणस्त्रसाः स्थावरा इत्युक्ते एतदुक्तं भवति, मुक्ता नैव त्रसा नैव स्थावरा इति ।। १४ ।। पञ्चेन्द्रियाणि ॥ १५ ॥ पञ्चेन्द्रियाणि भवन्ति । आरम्भो नियमार्थः षडादिप्रतिषेधार्थश्च । इन्द्रियमिन्द्रलिङ्गमिन्द्रदिष्टमिन्द्रदृष्टमिन्द्र सृष्टमिन्द्रजुष्टमिति वा । इन्द्रो जीवः सर्वद्रव्येष्वैश्वर्ययोगाद्विषयेषु वा परमैश्वर्ययोगात् । तस्य लिङ्गमिन्द्रियं लिङ्गनात्सूचना प्रदर्शनादुपष्टम्भनाद्व्यञ्जनाच्च जीवस्य लिङ्गमिन्द्रियम् ॥ १५ ॥ ३ १ त्रसन्ति अभिसन्धिपूर्वकं वा ऊर्ध्वमधस्तिर्यक्षु चलन्तीति त्रसाः । २ तिष्ठतीति स्थावरः । 'उक्कलिया मण्डलिया गुजा घणवायसुद्धवाया य । वायर वारविहाणा पञ्चविहा वण्णिया एए ॥१॥' (आचारांगश्रु. स्कं. १ अ. १ उ. ७) स्थित्वा स्थित्वा उत्कलिकाभिर्यो वाति स उत्कलिकावातः । मण्डलिकावातस्तु वातोलीरूपः । गुला भंभा तद्वत् गुञ्जनीयो वाति स गुआवातः । घनवातोऽत्यन्तघनः पृथिव्याद्याधारतया व्यवस्थितो हिमपटलकल्पो मन्दस्तिमितः शीतकालादिषु शुद्धवातः । ४ उपात्तेन्द्रियपञ्चकव्यतिरेकेण यावन्ति परैरभ्युपेयन्ते सर्वेषामत्र प्रतिषेधः । ५ "इन्द्रियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रदत्तमिति वा" इति पाणिनिसूत्रम् ५-२-९३ ।
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy