________________
..............-१.३५
जात्यपेक्षमेकस्मिन्बहुवचन'त्वं बहुषु बहुवचनं सर्वाकारितग्राहिण इति । एवं सर्वभावेषु नयवादाधिगमः कार्यः ।
अत्राह । पञ्चानां ज्ञानानां सविपर्ययाणां कानि को नयः श्रयत इति । अत्रोच्यते । नैगमादयस्त्रयः सर्वाण्यष्टौ श्रयन्ते । ऋजुसूत्रनयो मतिज्ञानमत्यज्ञानवर्जानि षट् ।
अत्राह । कस्मान्मतिं सविपर्ययां न श्रयत इति । अत्रोच्यते । श्रुतस्य सविपर्ययस्योपग्रहत्वात् । शब्दनयस्तु द्वे एव श्रुतज्ञानकेवलज्ञाने श्रयते ।
अत्राह । कस्मान्नेतराणि श्रयत इति । अत्रोच्यते । मत्यवधिमनःपर्यायाणां "श्रुतस्यैवोपग्राहकत्वात् । चेतनाज्ञस्वाभाव्याच्च सर्वजीवानां नास्य कश्चिन्मिथ्यादृष्टिरज्ञो वा जीवो विद्यते । तस्मादपि विपर्ययान श्रयत इति । अतश्च प्रत्यक्षानुमानोपमानाप्तवचनानामपि प्रामाण्यमभ्यनुज्ञायत इति । अत्राह च
विज्ञायैकार्थपदान्यर्थपदानि च विधानमिष्टं च । विन्यस्य परिक्षेपान्नयैः परीक्ष्याणि तत्त्वानि ॥१॥ ज्ञानं सविपर्यासं त्रयः श्रयन्त्यादितो नयाः सर्वम् । सम्यग्दृष्टेनिं मिथ्यादृष्टेर्विपर्यासः ॥२॥ ऋजुसूत्रः षट् श्रयते मतेः श्रुतोपग्रहादनन्यत्वात् । श्रुतकेवले तु शब्दः श्रयते नाऽन्यच्छ्रुताङ्गत्वात् ॥३॥ मिथ्यादृष्ट्यज्ञाने न श्रयते नास्य कश्चिदज्ञोऽस्ति । ज्ञस्वाभाव्याज्जीवो मिथ्यादृष्टिर्न चाप्यज्ञः ॥४॥ इति नयवादाश्चित्राः क्वचिद्विरुद्धा इवाथ च विशुद्धाः । लौकिकविषयातीतास्तत्त्वज्ञानार्थमधिगम्याः ॥५॥ ॥३५॥
इति तत्त्वार्थाधिगमसूत्रे स्वोपज्ञभाष्यसमेते प्रथमोऽध्यायः समाप्तः ॥ १ 'जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्-' पाणिनीयसूत्रे १.२.५८ तथा-बहुषु बहुवचनम्
१.४.२१ २ सविपर्ययाणां-अज्ञानसहितानाम् । ३ व्यवहारावधारणदशायामुपजीवकत्वात् । ४ स्वालोचितार्थस्य परप्रत्यायने श्रुतस्यैव मुखनिरीक्षकत्वादित्यर्थः । ५ चेतना-सामान्यपरिच्छेदकत्वं । ज्ञ इति भावप्रधाननिर्देशात् ज्ञत्वं-विशेषपरिच्छेदिता तयोः
स्वाभाव्यं तथाभवनं तस्मात् ।।