________________
अथ द्वितीयोऽध्यायः । अत्राह । उक्तं भवता जीवादानि तत्त्वानीति । तत्र को जीवः कथंलक्षणो वेति । अत्रोच्यते
औपशमिकक्षायिकौ भावौ मिश्रश्च जीवस्य
स्वतत्त्वमौदयिकपारिणामिकौ च ॥ १ ॥ औपशमिकः क्षायिकः क्षायोपशमिकः औदयिकः पारिणामिक' इत्येते पञ्च भावा जीवस्य 'स्वतत्त्व भवन्ति ॥५॥
द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ॥ २ ॥ एते औपशमिकादयः पञ्च भावा द्विनवाष्टादशैकविंशतित्रिभेदा भवन्ति । तद्यथा । औपशमिको द्विभेदः । क्षायिको नवभेदः । क्षायोपशमिकोऽष्टादशभेदः ।
औदयिक एकविंशतिभेदः । पारिणामिकस्त्रिभेद इति । यथाक्रममिति येन सूत्रक्रमेणात ऊर्ध्व वक्ष्यामः ॥२॥
सम्यक्त्वचारित्रे ॥ ३ ॥ सम्यक्त्वं चारित्रं च द्वावौपशमिकौ भावौ भवत इति ॥३॥
ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ॥४॥ ज्ञानं दर्शनं दानं लाभो भोग उपभोगो वीर्यमित्येतानि सम्यक्त्वचारित्रे च नव क्षायिका भावा भवन्तीति ॥४॥ १ अत्र घूणाक्षरन्यायात्पारिणामिकभावः- न खलु घूणाख्यजन्तुवेधितशुष्ककाष्ठसूक्ष्मचूर्णकणसमुदायाधःपतनस्वयंपरिणताक्षरस्य कश्चिल्लेखको वर्तत इति । रूपान्तरपरिणमनं ह्युदयः स च परमार्थतः पुद्गलेष्वेव, उपचारात्तु जीवेष्वपीति यतो हि कदाचित्परमाणुरेकगुणकृष्णवर्णपरिणतो भूत्वा द्विगुणकृष्णिमपरिणतः स्यात् । एकगुणत्वाद् द्विगुणत्वं रूपान्तरमेव इत्येवमन्यत्रापि परिणामः षड्द्रव्येऽपि । २ स्वतत्त्वं-स्वभावः । ३ सम्यक्त्वं तत्त्वरुचिः । सदसक्रियाप्रवृत्तिनिवृत्तिपरिणामलक्षणम् । ४ अ. ७ सू. ३३ ५ भुज्यते सकृदुपयुज्यत इति भोगः आहारमाल्यादि । ६ उपेत्य अधिकं पुनरुपयुज्यमानतया भुज्यते इत्युपभोगः । ७ विशेषेण ईरयति प्रवर्तयति आत्मानं तासु तासु क्रियासु इति वीर्यम् । पराक्रम इत्यर्थः ।
6ms