SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् समुदायव्यकृत्याकृतिसत्तासञ्ज्ञादिनिश्चयापेक्षम् । लोकोपचारनियतं व्यवहारं विस्तृतं विद्यात् ॥३॥ साम्प्रतविषयग्राहकमृजुसूत्रनयं समासतो विद्यात् । विद्याद्यथार्थशब्दं विशेषितपदं तु शब्दनयम् ||४|| इति ॥ २९ 1 अत्राह । अथ जीवो नोजीवः अजीवो नोअजीव' इत्याकारिते केन नयेन कोऽर्थः प्रतीयत इति । अत्रोच्यते । जीव इत्याकारिते नैगमदेशसङ्ग्रहव्यवहारर्जुसूत्रसाम्प्रतसमभिरूढैः पञ्चस्वपि गतिष्वन्यतमो जीव इति प्रतीयते । कस्मात् । एते हि नया जीवं प्रत्यौपशमिकादियुक्तभावग्राहिणः । नोजीव इत्यजीवद्रव्यं जीवस्य वा देशप्रदेशौ । अजीव इत्यजीवद्रव्यमेव । नोअजीव इति जीव एव, तस्य वा देशप्रदेशाविति । एवम्भूतनयेन तु जीव इत्याकारिते' भवस्थो जीवः प्रतीयते । कस्मात् । एष हि नयो जीवं प्रत्यौदयिकभावग्राहक एव । जीवतीति जीवः प्राणिति प्राणान्धारयतीत्यर्थः । तच्च जीवनं सिद्धे न विद्यते तस्माद्भवस्थ एव जीव इति । नोजीव इत्यजीवद्रव्यं सिद्धो वा । अजीव इत्यजीवद्रव्यमेव । नोअजीव इति भवस्थ एव जीव इति । समग्रार्थग्राहित्वाच्चास्य नयस्य नानेन देशप्रदेशौ गृह्येते । एवं जीवौ जीवा इति द्वित्व' बहुत्वाकारितेष्वपि । सर्वसङ्ग्रहणे तु जीवो नोजीवः अजीवो नोअजीवः जीवौ नोजीवी अजीवौ नोअजीवौ इत्येकद्वित्वाकारितेषु शून्यम् । कस्मात् । एष हि नयः सङ्ख्यानन्त्याजीवानां बहुत्वमेवेच्छति यथार्थग्राही । शेषास्तु नया १ ओदन्तः १ |२| ३७ इति हैमसूत्रेण सन्ध्यभावः । २ संसारी । ३ प्राणाः- इन्द्रियाणि पंच मनोवाक्कायास्त्रयः प्राणापानावेक आयुषश्चेति । पञ्चेन्द्रियाणि द्रव्यप्राणाः शेषास्तु भावप्राणाः । ४ जीवनं प्राणधारणलक्षणं सिद्धे न विद्यते । ५ एवं तावच्चत्वारो विकल्पा एकवचनेन दर्शिताः । एवं द्विवचनेन चत्वारो विकल्पा नेयाः । जीवी नोजीवी अजीवी नोअजीवौ । तथा च बहुवचनेनापि चत्वार एव जीवाः नोजीवाः अजीवाः नोअजीवाः । द्वित्वबहुत्वाकारितेषु द्विवचनबहुवचनाभ्यामुच्चारितेषु । ६ एष सङ्ग्रहनयः ।
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy