SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ २८ १.३५ नामादीनामन्यतमग्राहिषु प्रसिद्धपूर्वकेषु घटेषु सम्प्रत्ययः साम्प्रतः शब्दः । तेषामेव साम्प्रतानामध्यवसायासक्रमो वितर्कध्यानवत् समभिरूढः । तेषामेव व्यञ्जनार्थयोरन्योन्यापेक्षार्थग्राहित्वमेवम्भूत इति ॥ अत्राह । एवमिदानीमेकस्मिन्नर्थेऽध्यवसायनानात्वान्ननु विप्रतिपत्तिप्रसङ्ग इति । अत्रोच्यते । यथा सर्वमेकं सदविशेषात् । सर्वं द्वित्वं जीवाजीवात्मकत्वात् । सर्वं त्रित्वं द्रव्यगुणपर्यायावरोधात् । सर्वं चतुष्टयं 'चतुर्दर्शनविषयावरोधात् सर्वं पञ्चत्वमस्ति कायावरोधात् । सर्वं षट्त्वं षड् द्रव्यावरोधादिति । यथैता न विप्रतिपत्तयोऽथ चाध्यवसायस्थानान्तराण्येतानि तद्वन्नयवादा इति ।। किं चान्यत् । यथा मतिज्ञानादिभिः पञ्चभिज्ञ निर्धर्मादीनामस्तिकायानामन्यतमोऽर्थः पृथक् पृथगुपलभ्यते, पर्यायविशुद्धिविशेषादुत्कर्षेण, न च ता विप्रतिपत्तयः तद्वन्नयवादाः । यथा वा प्रत्यक्षानुमानोपमानाप्तवचनैः प्रमाणैरेकोऽर्थः प्रमीयते, स्वविषयनियमात्, न च ता विप्रतिपत्तयो भवन्ति, तद्वन्नयवादा इति । आह चनैगमशब्दार्थानामेकानेकार्थनयगमापेक्षः । देशसमग्रग्राही व्यवहारी नैगमो ज्ञेयः ।।१।। यत्सङ्गृहीतवचनं सामान्ये देशतोऽथ च विशेषे । तत्सङ्ग्रहनयनियतं ज्ञानं विद्यान्नयविधिज्ञः ॥२॥ १ चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनकेवलदर्शनरूपाणि चत्वारि दर्शनानि । तत्र चक्षुषा दर्शनं वस्तुसामान्यांशात्मकं ग्रहणं चक्षुर्दर्शनम् । अचक्षुषा चक्षुर्वर्जशेषेन्द्रियचतुष्टयेन मनसा च यदर्शनं सामान्यांशात्मकं ग्रहणं तदचक्षुर्दर्शनम् । अवधिना रूपिद्रव्यमर्यादया दर्शनं सामान्यांशग्रहणमवधिदर्शनम् । केवलेन सम्पूर्णवस्तुतत्त्वग्राहकबोधविशेषरूपेण यद्दर्शनं सामान्यांशग्रहणं तत्केवलदर्शनमिति । २ अस्तीत्ययं त्रिकालवचनो निपातः अभूवन् भवन्ति भविष्यन्ति चेति भावना । अतोऽस्ति च ते प्रदेशानां (प्रदेशः परमनिकृष्टोंऽशः) कायाश्च राशय इति अस्तिशब्देन प्रदेशाः कचिदुच्यन्ते, ततश्च तेषां वा काया अस्तिकायाः । ते च पञ्च १ धर्मास्तिकायः २ अधर्मास्तिकायः ३ आकाशास्तिकायः ४ जीवास्तिकायः ५ पुद्गलास्तिकायः । इति । ३ धर्माधर्माकाशपुद्गलजीवाः कालश्चेति षड्व्व्याणि । ४ अ. ५ सू. १
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy