________________
१७१
तत्त्वार्थाधिगमसूत्रम् स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिकाः ॥ २१ ॥
गतिशरीरपरिग्रहाभिमानतो हीनाः ॥ २२ ॥ पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु ॥ २३ ॥
प्राग्वेयकेभ्यः कल्पाः ॥ २४ ॥
ब्रह्मलोकालया लोकान्तिकाः ॥ २५ ॥ सारस्वतादित्यवन्यरुणगर्दतोयतुषिताव्याबाधमरुतोऽरिष्ठाश्च ॥ २६ ॥
विजयादिषु द्विचरमाः ॥ २७ ॥ औपपातिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ॥ २८ ॥
स्थितिः ॥ २९ ॥ भवनेषु दक्षिणार्धाधिपतीनां पल्योपममध्यर्धम् ॥ ३० ॥
शेषाणां पादोने ॥ ३१ ॥ - असुरेन्द्रयोः सागरोपममधिकं च ॥ ३२ ॥
सौधर्मादिषु यथाक्रमम् ॥ ३३ ॥
सागरोपमे ॥ ३४ ॥ अधिके च ॥ ३५ ॥
सप्त सनत्कुमारे ॥ ३६ ॥ विशेषत्रिसप्तदशैकादशत्रयोदशपञ्चदशभिरधिकानि च ॥ ३७ ॥ आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु
सर्वार्थसिद्धे च ॥ ३८ ॥ अपरा पल्योपममधिकं च ॥ ३९ ॥
सागरोपमे ॥ ४० ॥
अधिक च ॥ ४१ ॥ परतः परतः पूर्वा पूर्वानन्तरा ॥ ४२ ॥