________________
१७२
मूलसूत्राणि
नारकाणां च द्वितीयादिषु ॥ ४३ ॥ दश वर्षसहस्राणि प्रथमायाम् ॥ ४४ ॥
भवनेषु च ॥ ४५ ॥ व्यन्तराणां च ॥ ४६ ॥ परा पल्योपमम् ॥ ४७ ।। ज्योतिष्काणामधिकम् ॥ ४८ ॥
ग्रहाणामेकम् ॥ ४९ ॥ नक्षत्राणामर्धम् ॥ ५० ॥ तारकाणां चतुर्भागः ॥ ५१ ॥ जघन्या त्वष्टभागः ॥ ५२ ॥ चतुर्भागः शेषाणाम् ॥ ५३ ॥ .
पञ्चमोऽध्यायः । अजीवकाया धर्माधर्माकाशपुद्गलाः ॥ १ ॥
द्रव्याणि जीवाश्च ॥ २ ॥ नित्यावस्थितान्यरूपाणि ॥ ३ ॥
रूपिणः पुद्गलाः ॥ ४ ॥ आऽऽकाशादेकद्रव्याणि ॥ ५ ॥
निष्क्रियाणि च ॥ ६ ॥ असंख्येयाः प्रदेशा धर्माधर्मयोः ॥ ७ ॥
जीवस्य च ॥ ८॥
आकाशस्यानन्ताः ॥ ९ ॥ संख्येयासंख्येयाश्च पुद्गलानाम् ॥ १० ॥