________________
१७०
मूलसूत्राणि चतुर्थोऽध्यायः । ... देवाश्चतुर्निकायाः ॥ १ ॥
तृतीयः पीतलेश्यः ॥ २ ॥ दशाष्टपञ्चद्वादशविकल्पाः कल्पोपन्नपर्यन्ताः ॥ ३ ॥ इन्द्रसामानिकत्रायस्त्रिंशपारिषयात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्बि
किल्बिषिकाश्चैकशः ॥ ४ ॥ त्रायस्त्रिंशलोकपालवर्जा व्यन्तरज्योतिष्काः ॥ ५ ॥
पूर्वयोर्टान्द्राः ॥ ६ ॥
पीतान्तलेश्याः ॥ ७ ॥ कायप्रवीचारा आ ऐशानात् ॥ ८ ॥ शेषाः स्पर्शरूपशब्दमनःप्रवीचारा द्वयोर्दयोः ॥ ९ ॥
परेऽप्रवीचाराः ॥ १०॥ .. भवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमाराः ॥ ११ ॥ व्यन्तराः किनरकिम्पुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचाः ॥ १२ ॥ ज्योतिष्काः सूर्याश्चन्द्रमसो ग्रहनक्षत्रप्रकीर्णतारकाच ॥ १३ ॥
मेरुप्रदक्षिणानित्यगतयो नृलोके ॥ १४ ॥ तत्कृतः कालविभागः ॥१५॥ बहिरवस्थिताः ॥ १६ ॥
वैमानिकाः ॥ १७ ॥ कल्पोपपपन्नाः कल्पातीताश्च ॥ १८ ॥
उपर्युपरि ॥ १९॥ सौधर्मेशानसानत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्र
सहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु अवेयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धे च ॥ २० ॥