________________
१५८
१०-७
सामायिकसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः संख्येयगुणाः छेदोपस्थाप्यसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः संख्येयगुणाः ।
प्रत्येकबुद्धबोधितः । सर्वस्तोकाः प्रत्येकबुद्धसिद्धाः । बुद्धबोधितसिद्धा नपुंसकाः संख्येयगुणाः । बुद्धबोधितसिद्धाः स्त्रियः संख्येयगुणाः । बुद्धबोधितसिद्धाः पुमांसः संख्येयगुणा इति ।
ज्ञानम् । कः केन ज्ञानेन युक्तः सिध्यति । प्रत्युत्पन्नभावप्रज्ञापनीयस्य सर्वः केवल सिध्यति । नास्त्यल्पबहुत्वम् । पूर्वभावप्रज्ञापनीयस्य सर्वस्तोका द्विज्ञानसिद्धाः, चतुर्ज्ञानसिद्धाः संख्येयगुणाः, त्रिज्ञानसिद्धाः संख्येयगुणाः । एवं तावदव्यञ्जिते व्यञ्जितेऽपि सर्वस्तोका मतिश्रुतज्ञानसिद्धाः, मतिश्रुतावधिमनःपर्यायज्ञानसिद्धाः संख्येयगुणाः, मतिश्रुतावधिज्ञानसिद्धाः संख्येयगुणाः ॥
अवगाहना । सर्वस्तोका जघन्यावगाहनासिद्धाः, उत्कृष्टावगाहनासिद्धास्ततोऽसंख्येयगुणाः, यवमध्यसिद्धा असंख्येयगुणाः, यवमध्योपरिसिद्धा असंख्येयगुणाः, यवमध्याधस्तात्सिद्धा विशेषाधिकाः, सर्वे विशेषाधिकाः ॥
अन्तरम् । सर्वस्तोका अष्टसमयानन्तरसिद्धाः सप्तसमयानन्तरसिद्धाः षट्समयानन्तरसिद्धा इत्येवं यावद् द्विसमयानन्तरसिद्धा इति संख्येयगुणाः । एवं तावदनन्तरेषु, सान्तरेष्वपि सर्वस्तोकाः षण्मासान्तरसिद्धाः, एकसमयान्तरसिद्धाः संख्येयगुणाः, यवमध्यान्तरसिद्धाः संख्येयगुणाः, अधस्ताद्यवमध्यान्तरसिद्धा असंख्येयगुणाः, उपरियवमध्यान्तरसिद्धा विशेषाधिकाः, सर्वे विशेषाधिकाः ॥
यावत्
संख्या 1. सर्वस्तोका अष्टोत्तरशतसिद्धाः विपरीतक्रमात्सप्तोत्तरशतसिद्धादयो पञ्चाशत् इत्यनन्तगुणाः 1 एकोनपञ्चाशदादयो यावत्पञ्चविंशतिरित्यसंख्येययगुणाः । चतुर्विंशत्यादयो यावदेक इति संख्येयगुणाः । विपरीतहानिर्यथा - सर्वस्तोका अनन्तगुणहानिसिद्धाः, असंख्येयगुणहानिसिद्धा अनन्तगुणाः, संख्येयगुणहानिसिद्धा संख्येयगुणा इति ।
एवं निसर्गाधिगमयोरन्यतरजं तत्त्वार्थश्रद्धानात्मकं शङ्काद्यतिचारवियुक्तं प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं विशुद्धं सम्यग्दर्शनमवाप्य सम्यग्दर्शनोपलम्भाद् विशुद्धं च ज्ञानमधिगम्य निक्षेपप्रमाणनयनिर्देशसत्संख्यादिभिरभ्युपायैर्जीवादीनां तत्त्वानां पारिणामिकौदयिकौपशमिक