________________
१५७
तत्त्वार्थाधिगमसूत्रम् संख्येयगुणा इति ।
काल इति त्रिविधो विभागो भवति । अवसर्पिणी उत्सर्पिणी अनवसर्पिण्युत्सर्पिणीति । अत्र सिद्धानां (व्यजितानां) व्यञ्जिताव्यजितविशेषयुक्तोऽल्पबहुत्वानुगमः कर्तव्यः । पूर्वभावप्रज्ञापनीयस्य सर्वस्तोका उत्सर्पिणीसिद्धा, अवसर्पिणीसिद्धा विशेषाधिका, अनवसर्पिण्युत्सर्पिणीसिद्धाः संख्येयगुणा इति । प्रत्युत्पन्नभावप्रज्ञापनीयस्याकाले सिध्यति । नास्त्यल्पबहुत्वम् । ___ गतिः । प्रत्युत्पन्नभावप्रज्ञापनीयस्य सिद्धिगतौ सिध्यति । नास्त्यल्पबहुत्वम् । पूर्वभावप्रज्ञापनीयस्यानन्तरपश्चात्कृतिकस्य मनुष्यगतौ सिध्यति । नास्त्यल्पबहुत्वम् । परम्परपश्चात्कृतिकस्यानन्तरा गतिश्चिन्त्यते । तद्यथा । सर्वस्तोकास्तिर्यग्योन्यनन्तरगतिसिद्धा, मनुष्येभ्योऽनन्तरगतिसिद्धाः संख्येयगुणा, नारकेभ्योऽनन्तरगतिसिद्धाः संख्येयगुणा, देवेभ्योऽनन्तरगतिसिद्धाः संख्येयगुणा इति । __लिङ्गम् । प्रत्युत्पन्नभावप्रज्ञापनीयस्य व्यपगतवेदः सिध्यति । नास्त्यल्पबहुत्वम् । पूर्वभावप्रज्ञापनीयस्य सर्वस्तोका नपुंसकलिङ्गसिद्धाः, स्त्रीलिङ्गसिद्धाः संख्येयगुणाः, पुल्लिङ्गसिद्धाःसंख्येयगुणा इति ।
तीर्थम् । सर्वस्तोकाः तीर्थकरसिद्धाः तीर्थकरतीर्थे नोतीर्थकरसिद्धाः' संख्येयगुणा इति । तीर्थकरतीर्थसिद्धा नपुंसकाः संख्येयगुणाः । तीर्थकरतीर्थसिद्धाः स्त्रियः संख्येयगुणाः । तीर्थकरतीर्थसिद्धाः पुमांसः संख्येयगुणा इति ॥ __ चारित्रम् । अत्रापि नयौ द्वौ प्रत्युत्पन्नभावप्रज्ञापनीयश्च पूर्वभावप्रज्ञापनीयश्च । प्रत्युत्पन्नभावप्रज्ञापनीयस्य नोचारित्री नोअचारित्री सिध्यति । नास्त्यल्पबहुत्वम् । पूर्वभावप्रज्ञापनीयस्य व्यञ्जिते चाव्यजिते च । अव्यजिते सर्वस्तोकाः पञ्चचारित्रसिद्धाश्चतुश्चारित्रसिद्धाः संख्येयगुणास्त्रिचारित्रसिद्धाः संख्येयगुणाः । व्यजिते सर्वस्तोकाः सामायिकच्छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः छेदोपस्थाप्यपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः संख्येयगुणाः सामायिकच्छेदोपस्थाप्यसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः संख्येयगुणाः सामायिकपरिहारविशुद्धिसूक्ष्मसम्परायथाख्यातसिद्धाः संख्येयगुणाः १. अतीर्थकराः सन्तः सिद्धाः । तीर्थकरसिद्धेभ्यः संख्येयगुणा एभयश्च नपुंसकादयोऽपि
संख्येयगुणाः ।