SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् १३३ पीठफलकादीनां चावश्यका) निरीक्ष्य प्रमृज्य चादाननिक्षेपौ आदाननिक्षेपणासमितिः ॥ स्थण्डिले स्थावरजङ्गमजन्तुवर्जिते निरीक्ष्य प्रमृज्य च मूत्रपुरीषादीनामुत्सर्ग उत्सर्गसमितिरिति ॥ ५ ॥ उत्तमः क्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाकिंचन्यब्रह्मचर्याणि धर्मः॥६॥ इत्येष दशविधोऽनगारधर्मः उत्तमगुणप्रकर्षयुक्तो भवति । तत्र क्षमा तितिक्षा सहिष्णुत्वं क्रोधनिग्रह इत्यनान्तरम् । तत्कथं क्षमितव्यमिति चेदुच्यते । क्रोधनिमित्तस्यात्मनि भावाऽभावचिन्तनात्, परैः प्रयुक्तस्य क्रोधनिमित्तस्यात्मनि भावचिन्तनादभावचिन्तनाद्वा क्षमितव्यम् । भावचिन्तनात् तावद्विद्यन्ते मय्येते दोषाः, किमत्रासौ मिथ्या ब्रवीति क्षमितव्यम् । अभावचिन्तनादपि क्षमितव्यम्, नैते विद्यन्ते मयि दोषा यान् अज्ञानादसौ ब्रवीतीति क्षमितव्यम् । किं चान्यत् । क्रोधदोषचिन्तनाच्च क्षमितव्यम् । क्रुद्धस्य हि विद्वेषासादनस्मृतिभ्रंशव्रतलोपादयो दोषा भवन्तीति । किं चान्यत् । बालस्वभावचिन्तनाच्च परोक्षप्रत्यक्षाक्रोशताडनमारणधर्मभ्रंशानामुत्तरोत्तररक्षार्थम् । बाल इति मूढमाह । परोक्षमाक्रोशति बाले क्षमितव्यमेव । एवंस्वभावा हि बाला भवन्ति । दिष्ट्या च मां परोक्षमाक्रोशति न प्रत्यक्षमिति । लाभ एव मन्तव्य इति । प्रत्यक्षमप्याक्रोशति बाले क्षमितव्यम् । विद्यत एवैतद्बालेषु । दिष्ट्या च मां प्रत्यक्षमाक्रोशति । न ताडयति । एतदप्यस्ति बालेष्विति लाभ एव मन्तव्यः । ताडयत्यपि बाले क्षमितव्यम् । एवंस्वभावा हि बाला भवन्ति । दिष्ट्या च मां ताडयति, न प्राणैर्वियोजयतीति । एतदपि विद्यते बालेष्विति । प्राणैर्वियोजयत्यपि बाले क्षमितव्यम् । दिष्ट्या च मां प्राणैर्वियोजयति, न धर्माभ्रंशयतीति क्षमितव्यम् । एतदपि विद्यते बालेष्विति लाभ एव मन्तव्यः ॥ किं चान्यत् । स्वकृतकर्मफलाभ्यागमाच्च । स्वकृतकर्मफलाभ्यागमोऽयं मम, निमित्तमात्रं पर इति क्षमितव्यम् । किं चान्यत् । क्षमागुणांश्चानायासादीननुस्मृत्य क्षमितव्यमेवेति क्षमाधर्मः ॥ ___ नीचैर्वृत्त्यनुत्सेको मार्दवलक्षणम् । मृदुभावः मृदुकर्म च मार्दवं, मदनिग्रहो मानविघातश्चेत्यर्थः । तत्र मानस्येमान्यष्टौ स्थानानि भवन्ति । तद्यथा । जातिः कुलं रूपमैश्वर्यं विज्ञानं श्रुतं लाभो वीर्यमिति । एभिर्जात्यादिभिरष्टाभिर्मदस्थानैर्मत्तः परात्मनिन्दाप्रशंसाभिरतस्तीव्राहंकारोपहतमतिरिहामुत्र ____ चाशुभफलमकुशलं
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy