________________
१३४
९-६
कर्मोपचिनोति । उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते । तस्मादेषां मदस्थानानां निग्रहो मार्दवं धर्म इति ॥ ____ भावविशुद्धिरविसंवादनं चार्जवलक्षणम् । ऋजुभावः ऋजुकर्म वार्जवम् । भावदोषवर्जनमित्यर्थः । भावदोषयुक्तो ह्युपधिनिकृतिसंयुक्त इहामुत्र चाशुभफलमकुशलं कर्मोपचिनोति । उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते । तस्मादार्जवं धर्म इति ॥ ____ अलोभः शौचलक्षणम् । शुचिभावः शुचिकर्म वा शौचम् । भावविशुद्धिः निष्कल्मषता, 'धर्मसाधनमात्रास्वप्यनभिष्वङ्ग इत्यर्थः । अशुचिर्हि भावकल्मषसंयुक्त इहामुत्र चाशुभफलमकुशलं कर्मोपचिनोत्युपदिश्यमानमपि च श्रेयो न प्रतिपद्यते । तस्माच्छौचं धर्मः इति ॥
सत्यर्थे भवं वचः सत्यं, सद्भ्यो वा हितं सत्यम् । तदननृतमपरुषमपिशुनमनसभ्यमचपलमनाविलमविरलमसंभ्रान्तं मधुरमभिजातमसंदिग्धं स्फुटमौदार्ययुक्तमग्राम्यपदार्थाभिव्याहारमसीभर मरागद्वेषयुक्तम् ।
सूत्रमार्गानुसारप्रवृत्तार्थमर्थ्यमर्थिजनभावग्रहणसमर्थमात्मपरानुग्राहकं निरुपधं देशकालोपपन्नमनवद्यमर्हच्छासनप्रशस्तं यतं मितं याचनं प्रच्छनं प्रश्नव्याकरणमिति सत्यं धर्मः ॥
योगनिग्रहः संयमः । स सप्तदशविधः । तद्यथा । पृथिवीकायिकसंयमः अप्कायिकसंयमः तेजस्कायिकसंयमः वायुकायिकसंयमः वनस्पतिकायिकसंयमः द्वीन्द्रियसंयमः त्रीन्द्रियसंयमः चतुरिन्द्रियसंयमः पञ्चेन्द्रियसंयमः । प्रेक्ष्यसंयमः उपेक्ष्यसंयमः अपहृत्यसंयमः प्रमृज्यसंयमः कायसंयमः वाक्संयमः मनःसंयमः उपकरणसंयम इति संयमो धर्मः ॥
तपो द्विविधम् । तत्परस्ताद्वक्ष्यते । प्रकीर्णकं चेदमनेकविधम् । तद्यथा । यववज्रमध्ये चन्द्रप्रतिमे द्वे, कनकरत्नमुक्तावल्यस्तिस्रः, सिंहविक्रीडिते द्वे, १. धर्मसाधनमात्राः-रजोहरणमुखवस्त्रिकाचोलपट्टकपात्रादिलक्षणास्तास्वप्यनभिष्वङ्गो
विगतमूर्छ इत्यर्थ । २. असीभरम् । आश्वेव प्रस्तुतार्थपरिसमाप्तिकारि । ३. गणधरादिग्रथितं सूत्रं तस्य यो मार्ग उत्सर्गापवादलक्षणः । ४. अन्येन पृष्टः प्रवचनाविरुद्धं व्याकरोतीति । ५. अ. ९ सू. १९, २०.