SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ अथ नवमोऽध्यायः । उक्तो बन्धः । संवरं वक्ष्यामः आस्रवनिरोधः संवरः ॥ १ ॥ यथोक्तस्य काययोगादेर्द्विचत्वारिंशद्विधस्यास्रवस्य निरोधः संवरः ॥१॥ स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः ॥ २ ॥ स एष संवर एभिगुप्त्यादिभिरभ्युपायैर्भवति ॥ २ ॥ किं चान्यत् - तपसा निर्जरा च ॥ ३ ॥ तपो द्वादशविधं 'वक्ष्यते । तेन संवरो भवति निर्जरा च ॥३॥ अत्राह । उक्तं भवता गुप्त्यादिभिरभ्युपायैः संवरो भवतीति । तत्र के गुप्त्यादय इति । अत्रोच्यते ___ सम्यग्योगनिग्रहो गुप्तिः ॥ ४ ॥ सम्यगिति विधानतो ज्ञात्वाभ्युपेत्य सम्यग्दर्शनपूर्वकं त्रिविधस्य योगस्य निग्रहो गुप्तिः । कायगुप्तिर्वाग्गुप्तिर्मनोगुप्तिरिति । तत्र शयनासनादाननिक्षेपस्थानचंक्रमणेषु कायचेष्टानियमः कायगुप्तिः ॥ याचनपृच्छनपृष्टव्याकरणेषु वानियमो मौनमेव वा वाग्गुप्तिः । सावद्यसंकल्पनिरोधः कुशलसंकल्पः कुशलाकुशलसंकल्पनिरोध एव वा मनोगुप्तिरिति ।। ४ ॥ ईर्याभाषेषणादाननिक्षेपोत्सर्गाः समितयः ॥ ५ ॥ सम्यगीर्या सम्यग्भाषा. सम्यगेषणा सम्यगादाननिक्षेपौ सम्यगुत्सर्ग इति पञ्च समितयः । तत्रावश्यकायैव संयमार्थं सर्वतो युगमात्रनिरीक्षणायुक्तस्य शनैर्यस्तपदा गतिरीर्यासमितिः ॥ हितमितासंदिग्धानवद्यार्थनियतभाषणं भाषासमितिः ॥ अन्नपानरजोहरणपात्रचीवरादीनां धर्मसाधनानामाश्रयस्य चोद्गमोत्पादनैषणादोषवर्जनमेषणासमितिः ॥ रजोहरणपात्रचीवरादीनां १. अ. ९ सू. १९, २०.
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy