________________
१३१
तत्त्वार्थाधिगमसूत्रम् विद्यते । तदायुष्केण व्याख्यातम् ॥ २२ ॥
स यथानाम ॥ २३ ॥ सोऽनुभावो गतिनामादीनां यथानाम विपच्यते ।। २३ ॥
ततश्च निर्जरा ॥ २४ ॥ ततश्चानुभावात्कर्मनिर्जरा भवतीति । निर्जरा क्षयो वेदनेत्येकार्थम् । अत्र चशब्दो हेत्वन्तरमपेक्षते । तपसा निर्जरा चेति विक्ष्यते ।। २४ ॥ उक्तोऽनुभावबन्धः । प्रदेशबन्धं वक्ष्यामः । नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाढस्थिताः
सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ॥ २५ ॥ नामप्रत्ययाः पुद्गला बध्यन्ते । नाम प्रत्यय एषां त इमे नामप्रत्ययाः । नामनिमित्ता नामहेतुका नामकारणा इत्यर्थः । सर्वतस्तिर्यगूर्ध्वमधश्च बध्यन्ते । योगविशेषात् कायवाङ्मनःकर्मयोगविशेषाच्च बध्यन्ते । सूक्ष्मा बध्यन्ते न बादराः । एकक्षेत्रावगाढा बध्यन्ते, न क्षेत्रान्तरावगाढाः । स्थिताश्च बध्यन्ते, न गतिसमापन्नाः ।
सर्वात्मप्रदेशेषु सर्वप्रकृतिपुद्गलाः सर्वात्मप्रदेशेषु बध्यन्ते, । एकैको ह्यात्मप्रदेशोऽनन्तैः कर्मप्रदेशैर्बद्धः । अनन्तानन्तप्रदेशाः कर्मग्रहणयोग्याः पुद्गला बध्यन्ते, न संख्येयासंख्येयानन्तप्रदेशाः । कुतोऽग्रहणयोग्यत्वात्प्रदेशानामिति । एष प्रदेशबन्धो भवति ।। २५ ॥
सर्वं चैतदष्टविधं कर्म पुण्यं पापं च । तत्रसवेद्यसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्यम् ॥ २६ ॥
सद्वेद्यं भूतव्रत्यनुकम्पादिहेतुकम्, सम्यक्त्ववेदनीयं केवलिश्रुतादीनां वर्णवादादिहेतुकम्, हास्यवेदनीयं रतिवेदनीयं पुरुषवेदनीयं, शुभमायुष्कं मानुषं दैवं च, शुभनाम गतिनामादीनां, शुभं गोत्रमुच्चैर्गोत्रमित्यर्थः । इत्येतदष्टविधं कर्म पुण्यम्, अतोऽन्यत्पापम् ॥ २६ ॥ ..... इति तत्त्वार्थाधिगमसूत्रे स्वोपज्ञभाष्यसमेतेऽष्टमोऽध्यायः समाप्तः ॥ ८ ॥
१. अ. २ सू. ५२. २. अ. ९ सू. ३.