________________
१३०
८.२२
___ उक्तः प्रकृतिबन्धः । स्थितिबन्धं वक्ष्यामः। . आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थिति ॥१५॥
आदितस्तिसृणां कर्मप्रकृतीनां ज्ञानावरणदर्शनावरणवेद्यानामन्तरायप्रकृतेश्च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थितिः ॥ १५ ॥
सप्ततिर्मोहनीयस्य ॥ १६ ॥ मोहनीयकर्मप्रकृतेः सप्ततिःसागरोपमकोटीकोट्यः परा स्थितिः ॥१६॥
नामगोत्रयोविंशतिः ॥ १७ ॥ नामगोत्रप्रकृत्योविंशतिसागरोपमकोटीकोट्यः परा स्थिति ॥ १७॥
त्रयस्त्रिंशत्सागरोपमान्यायुष्कस्य ॥ १८ ॥ आयुष्कप्रकृतेस्त्रयस्त्रिंशत्सागरोपमानि परा स्थितिः ।। १८ ॥
अपरा द्वादशमुहूर्ता वेदनीयस्य ॥ १९ ॥ वेदनीयप्रकृतेरपरा द्वादश मुहूर्ताः स्थितिरिति ॥ १९ ॥
नामगोत्रयोरष्टौ ॥ २० ॥ नामगोत्रप्रकृत्योरष्टौ मुहूर्ता अपरा स्थितिर्भवति ॥ २० ॥
- शेषाणामन्तर्मुहूर्तम् ॥ २१ ॥ वेदनीयनामगोत्रप्रकृतिभ्यः शेषाणां ज्ञानावरणदर्शनावरणमोहनीयायुष्कान्तरायप्रकृतीनामपरा स्थितिरन्तर्मुहूर्तं भवति ॥२१॥ उक्तः स्थितिबन्धः । अनुभावबन्धं वक्ष्यामः ।
विपाकोऽनुभावः ॥ २२ ॥ सर्वासां प्रकृतीनां फलं विपाकोदयोऽनुभावो भवति । विविधः पाको विपाकः, स तथा चान्यथा चेत्यर्थः । जीवः कर्मविपाकमनुभवन् कर्मप्रत्ययमेवानाभोगवीर्यपूर्वकं कर्मसंक्रमं करोति, उत्तरप्रकृतिषु सर्वासु मूलप्रकृत्यभिन्नासु, न तु मूलप्रकृतिषु संक्रमो विद्यते, बन्धविपाकनिमित्तान्यजातीयकत्वात् । उत्तरप्रकृतिषु च दर्शनचारित्रमोहनीययोः सम्यग्मिथ्यात्ववेदनीयस्यायुष्कस्य
च
जात्यन्तरानुबन्धविपाकनिमित्तान्यजातीयकत्वादेव संक्रमो न विद्यते । अपवर्तनं तु सर्वासां प्रकृतीनां