________________
११८
-
७-२९
क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिक्रमाः ॥ २४ ॥
क्षेत्रवास्तुप्रमाणातिक्रमः, हिरण्यसुवर्णप्रमाणातिक्रमः, धनधान्यप्रमाणातिक्रमः, दासीदासप्रमाणातिक्रमः, कुप्यप्रमाणातिक्रम इत्येते पञ्चेच्छापरिमाणव्रतस्यातिचारा भवन्ति ।। २४ ॥
ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तर्धानानि ॥ २५ ॥ ऊर्ध्वव्यतिक्रमः, अधोव्यतिक्रमः, तिर्यग्व्यतिक्रमः, क्षेत्रवृद्धिः , स्मृत्यन्तर्धानमित्येते पञ्च दिग्व्रतस्यातिचारा भवन्ति । स्मृत्यन्तर्धानं नाम स्मृतेभ्रंशोऽन्तर्धानमिति ॥२५॥
आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः ॥ २६ ॥ द्रव्यस्यानयनं, प्रेष्यप्रयोगः, शब्दानुपातः, रूपानुपातः, पुद्गलक्षेप इत्येते पञ्च देशव्रतस्यातिचारा भवन्ति ॥ २६ ॥
कन्दर्पकौकुच्यमौखर्यासमीक्ष्याधिकरणोपभोगाधिकत्वानि ॥ २७ ॥
कन्दर्पः, कौकुच्यं, मौखर्यमसमीक्ष्याधिकरणमुपभोगाधिकत्वमित्येते पञ्चानर्थदण्डविरतिव्रतस्यातिचारा भवन्ति । तत्र कन्दर्पो नाम रागसंयुक्तोऽसभ्योवाक प्रयोगो हास्यं च ।। कौकुच्यं नाम एतदेवोभयं दुष्टकायप्रचारसंयुक्तम् ।। मौखर्यमसंबद्धबहुप्रलापित्वम्।।असमीक्ष्याधिकरणंलोकप्रतीतम्॥उपभोगाधिकत्वंचेति॥२७॥
योगदुष्पणिधानानादरस्मृत्यनुपस्थापनानि ॥ २८॥ कायदुष्प्रणिधानं, वाग्दुष्प्रणिधानं, मनोदुष्प्रणिधानमनादरः, स्मृत्य नुपस्थापनमित्येते पञ्च सामायिकव्रतस्यातिचारा भवन्ति ॥ २८ ॥ अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादाननिक्षेपसंस्तारो
पक्रमणानादरस्मृत्यनुपस्थापनानि ॥ २९ ॥ १. यन्नात्मनः किञ्चिदुपकरोति, परप्रयोजनमेव, केवलं साधयतीति । २. शरीरावयवानां पाणिपादादीनामनिभृततावस्थापनरूपत्वम् । ३. वर्णसंस्काराभावे सति अर्थानवगमरूपत्वम् । ४. क्रोधलोभादिकार्यव्यासंगजन्यसंभ्रमरूपत्वम् । ५. अनुत्साहः । ६. स्मृत्यभावः । ७. प्रत्यवेक्षणं चक्षुषा निरीक्षणं स्थण्डिलस्य सचित्ताचित्तमिश्रस्थावरजंगमजन्तुशून्यस्य । ८. प्रमार्जनं वस्त्राप्रान्तादिना विशुद्ध्यर्थम् । .