________________
तत्त्वार्थाधिगमसूत्रम्
११७
त्रसस्थावराणां जीवानां बन्धवधौ, त्वक्छेदः काष्ठादीनां, पुरुषहस्त्यश्वगोमहिषादीनां चातिभारारोपणं, तेषामेव चानपाननिरोधः, अहिंसाव्रतस्यातिचारा भवन्ति ॥ २०॥
मिथ्योपदेशरहस्याभ्याख्यानकूटलेखक्रियान्यासा
पहारसाकारमन्त्रभेदाः ॥ २१ ॥ एते पञ्च मिथ्योपदेशादयः सत्यवचनस्यातिचारा भवन्ति । तत्र मिथ्योपदेशो नाम प्रमत्तवचनमयथार्थवचनोपदेशो विवादेष्वतिसंधानोपदेश' इत्येवमादिः ॥ रहस्याभ्याख्यानं नाम स्त्रीपुंसयोः परस्परेणान्यस्य वा रागसंयुक्तं हास्यक्रीडासङ्गादिभी रहस्येनाभिशंसनम् ॥ कूटलेखक्रिया लोकप्रतीता ॥ न्यासापहारो विस्मरणकृतपरनिक्षेपग्रहणम् ॥ साकारमन्त्रभेदः पैशुन्यं गुह्यमन्त्रभेदश्च ॥ २१ ॥
स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिक
मानोन्मानप्रतिरूपकव्यवहाराः ॥ २२ ॥ एते पञ्चास्तेयव्रतस्यातिचारा भवन्ति । तत्र स्तेनेषु हिरण्यादिप्रयोगः ॥ स्तेनैराहृतस्य द्रव्यस्य मुधा क्रयेण वा ग्रहणं तदाहृतादानम् ॥ विरुद्धराज्यातिक्रमश्चास्तेयव्रतस्यातिचारः । विरुद्धे हि राज्ये सर्वमेव स्तेययुक्तमादानं भवति ॥ हीनाधिकमानोन्मानप्रतिरूपकव्यवहारः । कूटतुलाकूटमानवञ्चनादियुक्तः क्रयो विक्रयो वृद्धिप्रयोगश्च । प्रतिरूपकव्यवहारो नाम सुवर्णरूप्यादीनां द्रव्याणां प्रतिरूपकक्रिया व्याजीकरणानि चेत्येते पञ्चास्तेयव्रतस्यातिचारा भवन्ति ॥ २२ ॥
परविवाहकरणेत्वरपरिगृहीतापरिगृहीतागमना
नङ्गक्रीडातीव्रकामाभिनिवेशाः ॥ २३ ॥ परविवाहकरणमित्व रपरिगृहीतागमनमपरिगृहीतागमनमनङ्गक्रीडा तीव्रकामाभिनिवेश इत्येते पञ्च ब्रह्मचर्यव्रतस्यातिचारा भवन्ति ॥ २३ ॥ १. कलहेऽन्यतरस्यातिसंधानोपायं वञ्चनोपायमुपदिशति । २. द्वयोः प्रीतिं शूनयति नाशयतीति पिशुनः, तद्भावः ।। ३. इत्वरी-कुलटा । प्रतिपुरुषगमनशीलायां साधारणस्त्रियां किंचित्कालं भाटिप्रदानादिना
ग्रहणपूर्वकममनपूर्वकगमनत्वमित्वरगमनस्य लक्षणम् ।