SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ११५ तत्त्वार्थाधिगमसूत्रम् 'चतुर्थाद्युपवासिना व्यपगतस्नानानुलेपनगन्धमाल्यालंकारेण न्यस्तसर्वसावद्ययोगेन कुशसंस्तारफलकादीनामन्यतमं संस्तारमास्तीर्य, स्थानं वीरासननिषद्यानां वाऽन्यतममास्थाय धर्मजागरिकापरेणानुष्टेयो भवति ॥ उपभोगपरिभोगव्रतं नामाशनपानखाद्यस्वाद्यगन्धमाल्यादीनामाच्छादनप्रावरणालंकारशयनासनगृहयानवाहनादीनां च बहुसावद्यानां वर्जनम् । अल्पसावद्यानामपि परिमाणकरणमिति । अतिथिसंविभागो नाम न्यायागतानां कल्पनीयानामन्नपानादीनां द्रव्याणां देशकालश्रद्धासत्कारक्रमोपेतं परयात्मानुग्रहबुद्ध्या संयतेभ्यो दानमिति ॥ १६ ॥ किं चान्यदिति। मारणान्तिकी संलेखनां जोषिता ॥ १७ ॥ कालसंहननदौर्बल्योपसर्गदोषाधर्मावश्यकपरिहाणिं मरणं वाऽभितो ज्ञात्वा, अवमौदर्यचतुर्थषष्ठाष्टमभक्तादिभिरात्मानं संलिख्य, संयमं प्रतिपद्य, उत्तमव्रतसंपन्नश्चतुर्विधाहारं प्रत्याख्याय, यावजीवं भावनानुप्रेक्षापरः "स्मृतिसमाधिबहुलो मारणान्तिकी संलेखनां जोषिता उत्तमार्थस्याराधको भवतीति ॥१७॥ एतानि दिग्व्रतादीनि शीलानि भवन्ति । 'निःशल्यो व्रती' इति वचनादुक्तं भवति व्रती नियतं सम्यग्दृष्टिरिति तत्रशङ्काकाङ्क्षाविचिकित्सान्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेरतिचाराः ॥ १८ ॥ शङ्का काङ्क्षा विचिकित्सा अन्यदृष्टिप्रशंसा संस्तवः इत्येते पञ्च सम्यग्दृष्टेरतिचारा भवन्ति । अतिचारो व्यतिक्रमः स्खलनमित्यनर्थान्तरम् ॥ १. पृथग्जनस्यानियतानि भक्तानि । मुमुक्षूणां सकृद् भोजनम् । मध्यमजनस्य भक्तद्वयम् । तत्र मध्यमां प्रतिपत्तिमाश्रित्य चतुर्थादितपोगणना । अतीतेऽहनि भुक्त्वा प्रत्याख्यानमित्येको भोजनकालः । द्वितीयेऽहनि भक्तद्वयच्छेदः । तृतीयेऽहनि । चतुर्थभक्तकाले भुक्त इति चतुर्थभक्तमुच्यते । एक उपवासः । आदिग्रहणात् . पूर्वगणनयैव षष्ठाष्टमादिसमस्ततपोविकल्पग्रहणम् । २. निषधा-समस्फिग्निवेशनं पर्यंतबन्धादि । ३. मर्यादाकरणम् । ४. (१) अशनं-सक्तुमुद्गाक्षीरदध्यादि (२) पानं खजूरद्राक्षापानकोष्णपानकादि (३) स्वादिमं-गुडचारुकुलिकाखण्डेक्षुशर्करादि । (४) स्वादिम-एलाफलकर्पूर लवङ्गपूगीफलनागरादि । ५. स्मृतिः प्रतिज्ञातस्य महाव्रतादेः।-- ६. अ. ७. सू. १३
SR No.022503
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherRatnatrai Aradhak Sangh
Publication Year
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy