________________
११४
.....
७-१६ कामोऽभिलाषः कांक्षा गाध्यं मूर्च्छत्येनान्तरम् ।। १२ ।। अत्राह । गृह्णीमस्तावद् व्रतानि । अथ व्रती क इति । अत्रोच्यते
निःशल्यो व्रती ॥ १३ ॥ मायानिदानमिथ्यादर्शनशल्यैस्त्रिभिर्वियुक्तो निःशल्यो व्रती भवति । व्रतान्यस्य सन्तीति व्रती । तदेवं निःशल्यो व्रतवान व्रती भवतीति ॥ १३ ॥
अगार्यनगारश्च ॥ १४ ॥ स एष व्रती द्विविधो भवति । अगारी अनगारश्च । श्रावकः श्रमणश्चेत्यर्थः ॥ १४ ॥ अत्राह । कोऽनयोः प्रतिविशेष इति । अत्रोच्यते
अणुव्रतोऽगारी ॥ १५ ॥ अणून्यस्य व्रतानीत्यणुव्रतः । तदेवमणुव्रतधरः श्रावकोऽगारी व्रती भवति ॥ १५ ॥ किं चान्यत् - दिग्देशानर्थदण्डविरतिसामायिकपौषधोपवासोपभोगपरिभोगातिथिसंविभागवत
संपन्नश्च ॥ १६ ॥ एभिश्च दिग्व्रतादिभिरुत्तरव्रतैः संपन्नोऽगारी व्रती भवति । तत्र दिग्व्रतं नाम तिर्यगूर्ध्वमधो वा दशानां दिशां यथाशक्ति गमनपरिमाणाभिग्रहः । तत्परतश्च सर्वभूतेष्वर्थतोऽनर्थतश्च सर्वसावद्ययोगनिक्षेपः ॥ देशव्रतं नामपवरकगृहग्रामसीमादिषु यथाशक्ति प्रविचाराय परिमाणाभिग्रहः । तत्परतश्च सर्वभूतेष्वर्थतोऽनर्थतश्च सर्वसावद्ययोगनिक्षेपः ॥ अनर्थदण्डो नाम उपभोगपरिभोगावस्यागारिणो व्रतिनोऽर्थः, तद्व्यतिरिक्तोऽनर्थः, तदर्थो दण्डोऽनर्थदण्डः । तद्विरतिव्रतम् ॥ सामायिकं नामाभिगृह्य कालं सर्वसावद्ययोगनिक्षेपः ॥ पौषधोपवासो नाम पौषधे उपवासः पौषधोपवासः । पौष धः पर्वेत्यनर्थान्तरम् । सोऽष्टमी चतुर्दशी पञ्चदशीमन्यतमां वा तिथिमभिगृह्य
१. निक्षेपः - निरासः, विरहः । २. तदर्थः तन्निमितः। ३. पौषधशब्दः पर्ववाचकः । पोषं धत्ते पुष्णाति वा धर्मानिति निरुक्तात् ।